SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः २१७ भानादौ लौकिकप्रत्यक्षसामग्य विरोधित्वस्य निष्प्रामाणिकत'याऽलौकिकविषयितानियामकोपनायकज्ञानादिसमवहिततल्लौकिकसनिकर्षात, घटादिनिरूपितलौकिकालौकिकोभयविषयिताशालिवतमानचाक्षुषादेरप्युत्पत्त्या तादृशचानुषादिदशायामुक्तप्रयोगापत्तेः । आकाशादिनिरूपितालौकिकविषयिताशालिवर्तमानचाक्षुषाद्यशे घटादिवृत्तित्वस्य आकाशीयत्वादिना लौकिकविषयितायाश्च भ्रमदशायां घट आकाशं न पश्यतीत्यादिवाक्याच्छाब्दबोधापत्तेदुर्वारत्वाच्च । घटादिनिरूपितालौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन घटादिविषयित्वघटितोभयाभावभानोपगमेऽप्यनिस्तारात् एतेनाख्यातार्थवर्त्तमानत्वाद्यवच्छिन्नसमयावच्छिन्नाश्रयत्वाद्यवच्छिन्ने आकाशादिविषयकप्रतियोगिकत्वलौकिकान्यविषयिताशून्यचाक्षुषप्रतियोगिकत्वघटाद्यनुयोगिकत्वैतत्त्रितयत्वावच्छिन्नाभावो भासतेऽतोऽभाव आकाशं न पश्यतीत्यादौ नानुपपत्तिः । तत्र विषयितावत्प्रतियोगिकत्वं द्वितीयार्थः। निरुक्तचाक्षुषप्रतियोगिकत्वं त्रित्वं च धातोरर्थः । घटाद्यनुयोगित्वं च प्रथमान्तार्थ इत्यपि चिरस्तमिति चेत् अगत्या घट आकाशं न पश्यतीत्यादिवाक्यानामप्रामाण्यमुपगन्तव्यमिति । इति प्रथमखण्डम् निःप्रामाणिकतयति । विषयतासम्बन्धेनोपनीतभानं प्रति विषयतासम्बन्धेन प्रत्यक्षसामग्रयाः प्रतिबन्धकतया नैकस्मिन् पदार्थे लौकिकालौकिकोभयविषयत्वस्य सम्भव इति शङ्कां समादधाति-निःप्रामाणिकतयेत्यदिना।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy