________________
२०४
व्युत्पत्तिवादः . [ कारके ण्यर्थकृतावेव तृतीयान्तार्थमैत्रादिवृत्तित्वस्यान्वयो वाच्यः । एवं च मैत्रं पाचयतीत्यादिवाक्यजन्यबोधावैलक्षण्याद् द्वितीयातृतीययोस्तात्पर्यभेदेन व्यवस्थाया न संगतिरिति चेत्-न। अगत्या तत्र पाकादिविशेषणकृतेः पारतन्त्र्येण व्यापारविशेषणीभूतणिजर्थकतावभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीयत्वात्। पदार्थैकदेशे कृतौ पाकादेरिव कृतेरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । वस्तुतः कर्तृत्वं व्यापारश्च पृथगेव णिजर्थः । विशिष्टलाभोऽन्वयवलात् । ___ केचित्तु अनुकूलव्यापार एव णिजर्थः तदन्वयिनी गमनभोजनक्रियैव धात्वर्थतावच्छेदकं फलं तत्संबन्धिनस्तादृशक्रियाकर्तुय॑न्तकर्मता। तादृशक्रियासंबन्धश्चाश्रयत्वकृतिमत्त्वान्यतरो ग्राह्यः । अतो गमनादिसंबन्धिकालादौ नातिप्रसङ्ग इत्याहुः । ___ अत्र च तादृशकर्मतावाचकपदात् कदा चिद्वितीया कदा चित्तृतीया इत्यत्र नियामकाभावः । तादृशपदोत्तरयोस्तयोस्तुल्यार्थकतया विवक्षाभेदरूपनियामकाभावादिति तु चिन्तनीयम् । अजा ग्रामं याप्यते चैत्रेणेत्यादौ चैत्रकर्तकव्यापारनिर्बाह्यं यद्ग्रामवृत्तिसंयोगानुकूलक्रियाकर्तत्वं तदाश्रयोऽजा इति बोधः । तत्र संयोगावच्छिन्नक्रिया धातुलभ्या, संयोगे ग्राममित्यादिद्वितीयान्तार्थग्रामादिवृत्तित्वान्वयबलात् ग्रामादिवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते तादृश्या णिजर्थकर्तृत्वेऽन्वयः। कर्माख्यातादिसमभिव्याहारनियन्त्रितव्युत्पत्तिबलाच्च तादृशक्रियान्वितकर्तत्वं तृतीयान्तार्थ
चैत्रादिकर्तृत्वविशेषितव्यापाररूपापरणिजथै निर्वाह्यत्वसंबन्धन विशेषितम् । अजादिरूपकर्मीभूतकर्तविशेषणीभवदाख्याताश्रयत्वे विशेषणतया भासते। __ ये तु गतिबुद्धीत्यादिसूत्रस्य संज्ञाविधायकत्वं वर्णयन्ति तेषामयमाशयः। व्यापार एव णिजर्थः। तत्र धात्वर्थक्रियायाः