SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः १६७ न च विभागोमादानत्वमेवेति तद्विवक्षायां द्वितीयानवकाश इति वाच्यम्। धातुवृत्तिग्रहविशेष्यान्वयिनो विभागस्यैवापादानत्वरूपत्वात् । वृक्षात्पर्णं पततीत्यादौ स्पन्दरूपवृत्तिग्रहविशेष्यांशे एव पञ्चम्यर्थविभागान्वयात् । "वस्तुतो विभागावच्छिन्नक्षरणानुकूलो' व्यापारो दुह्यर्थः । गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवं धात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतीयते इति नाकथितं चेत्यस्य विषय इति वाच्यम् । धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वात्। यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थतया विवक्षितं क्षरणान्वयिविभागस्य विभक्त्यर्थतया तत्रापादानत्वबोधिका पञ्चमी। एतेन कदाचिद्गां दोग्धि पयः, कदाचिच्च गोः पयो दोग्धि इत्यत्र नानियमः । अथ वा गोभ्यो दोग्धि पय इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटिप्रविष्ट एव वृक्षाद्विभजते इत्यत्रेवावधित्वरूपापादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च द्वितीया। अवधित्वं चाश्रयत्वादन्य एव स्वरूपसंवन्धविशेषः । अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात् पयोनिष्ठक्षरणस्य पयोनिष्ठविभागजनकत्वेऽपि न पयः पयो दोग्धीति प्रयोगः । परत्वं च विभागान्वयितावच्छेदकावच्छिन्नापेक्षया बोध्यम् । दुह्यते गौः क्षीरमित्यादौ क्षरणजन्यविभागाश्रयत्वरूपं गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । अप्रधाने दुहादीनामित्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः। आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः। तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्याकारको बोधः। अथ वा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयं विशिष्टलाभोऽन्वयबलात्। कर्माख्यातस्थले चाकाङ्क्षावैचित्र्येण तेषां विशेष्यविशेषणभाववैपरी
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy