________________
प्यकर्तर्येव तादृशाभावो नया बोधयिष्यत इति वाच्यम् । श्राख्यातार्थविशेष्यकस्याप्यन्वयबोधस्य सम्भवेनाध्याहारस्यानावश्यकत्वाद्भूमेर्गमनं न महीरुहस्येत्यादौ द्वितीयासमानार्थकपष्ठयाभावबोधकतया आवश्यकत्वाच्च । न हि तत्राप्याश्रयतासम्बन्धावच्छिन्नप्रतियोगिताकगमनाभावः प्रतीयत इति सम्यक । अदुयोन्चनुपस्थितेनञोऽनुयोगिविनिर्मीकेनाभावबोधकताया अव्युत्पन्नत्वोदिति चेत्-न । वृत्त्यनियामकसम्बन्ध स्याभावप्रतियोगितावच्छेदकत्वे दोषः कः। अथ जनकतादि सम्बन्धावच्छिनप्रतियोगिताकसंयोगाद्यभावस्यातिरिक्तस्य कलाने गौरवमिति चेत्-न । तादृशाभावस्य संयोगजनकत्वाद्यभावसनियतत्वेन तत्स्वरूपत्वात्तस्य चोभयवादिसिद्धत्वादतिरिक्तप्रतियोगिताकल्पने गौरवमिति चेत्-अस्त्वेतद्गौरवम् । उपदर्शितबहुविध नाघवेन ईदृशगौरवस्याकिंचित्करत्वात् । अय फलस्य द्वितीयार्थत्वे वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि द्रव्यं गच्छति न गुणमित्यादौ गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसि'द्धया नर्थान्वयबोधानुपत्तिरिति चेत्-न । बाधेयतासम्बन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावस्यैव द्वितीयार्थे 'फले नया बोधनोपगमात् । गुणो न गुणं गच्छतीत्यादिवाक्यस्योभयमत एवाप्रमाणता । अस्तु कम् तत्राभावस्य द्विधा भानोपगमेन गुणाभाववत्फलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारकव्यापारम्य एवान्वयबोधः । marrianलाधिrsarkar, 'परे तु वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदक
'परे स्विति । वस्तुतो न युक्तमिदम् । वृत्त्यनियामक सम्बन्धस्याभावप्रतियोगितावच्छेदकत्वमभ्युपगच्छतामपि प्राचान्न निर्वाः । यतस्तैरान