SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः १३४ [ कारके गतरीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनायान्तु अन्यप्रत्यक्षस्थलीयप्रतिबन्धकतामादायैव निर्वाह इति मूलञ्चिन्त्यमेवेति तत्त्वम् । यत्तु स्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दर इति प्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनं प्रकारतावादिनामप्यावश्यकमित्युभयं समानमेवेति - तन्न । तत्प्रतिदाने निरूपितत्वसम्बन्धेन राजाभाववत्स्वत्वं प्रमेयमित्यादिप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनायाः संसर्गतावादिनामावश्यकतयोपदर्शितविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षत्वावच्छिन्नम्प्रति प्रतिबन्धकत्वकल्पनाधिक्येन संसर्गतावादिनामेव गौरवात् । यदप्याहुः स्वत्वप्रकारक बोधोपगमे शाब्दसामग्रीकुक्षौ निरूपितत्वसम्बन्धेन राजाभाववत्स्वत्वमिति बाघनिश्चयाभावस्य राजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावस्य च प्रवेशः संसर्गतावादिनां स्वत्व - सम्बन्धेन राजाभाववान् पुरुष इत्येकबाधनिश्चयाभावस्यैवेति विभिन्नविषयकप्रत्यक्षम्प्रति सामग्रयां प्रतिबन्धकत्वे प्रतिबन्धकतावच्छेदककोटौ प्रत्ययजन्यस्वत्वाद्युपस्थितेः उभयबाधनिश्चयाभावस्य च प्रकारतावादिनां प्रवेशः । संसर्गतावादिनां चैकबाधनिश्चयाभावस्यैवेति प्रकारतावादिनामेव गौरवमिति तदपि न । स्वत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावस्य प्रकारतावादिनां राजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावप्रवेशेनैव गतार्थतया स्वत्वसम्बन्धेन राजाभावव्याप्यराज निरूपितस्वत्वाभाववान् पुरुष इति निश्चयकाले शाब्दबोधानुपपत्त्या संसर्गतावादिनां च तदभावस्यापि गुरुधर्म्मकस्य निवेशनीयतया लाघवानवकाशात् । न च राजनिरूपितस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन ननु योग्यताज्ञानादिघटितशाब्दसामग्री शाब्दजननी भवति । जनकता च न तत्र समुदायत्वेन वक्तुं शक्या समुदायत्वस्यापेक्षा बुद्धिविशेषविषयत्वरूपत्वेन तादृशापेक्षा बुद्धिमन्तराऽपि कार्य्योत्पत्तेरिष्टत्वात् । एवञ्च योग्य
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy