SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १०५ घटो घट इति वाक्यस्य तादृशबोधाजनकत्वेऽपि तादृशबोधे साकाङ्क्षत्वेनादोषात् । नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकता काभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य च नीलघटो घट: स घट इत्यादिवाक्याद्घटत्वेऽप्युदयेन घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रत्यव्याप्यत्वेन तत्र घटत्वभेदानपेक्षणात्तयोस्तत्रोत्पत्तौ न बाधकमिति दिक् । न चोक्तबोधौ यदि न व्याप्यौ तहि नीलघटो नीलघट स स इति वाक्याभ्यां घटत्वे तयोरापत्तिस्तत्र घटत्वभेदानपेक्षणादिति वाच्यम् । नीलत्वानवच्छिन्नविशेष्यतानिरूपितजातित्वावच्छिन्नावच्छेदकतासम्बन्धेन नीलघटत्वावच्छिन्नप्रकारताकस्य जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकशाब्दबोधस्य च तत्रासम्भवात् विशेष्यदले नीलत्वस्य जातित्वस्य चोपस्थित्या भानस्यावश्यकत्वात् । कथञ्चित्तयोरभाने शाब्दबोधस्येप्टत्वात् । न च नीलघटो नीलं द्रव्यमित्यादौ द्रव्यत्वे प्रसिद्धस्य नीलघटत्वावच्छिन्नप्रकारतानिरूपितनीलत्वावच्छिन्नविशेष्यतानिरूपितानवच्छिन्नावच्छेद कतासम्बन्धेन शाब्दबोधस्य घटत्वत्वेन घटत्वोपस्थापकेन जातित्वेन घटत्वोपस्थापकेन च तत्पदेन घटिते स स इत्यादौ च प्रसिद्धस्य शाब्दबोधस्य घटत्वे जातित्वे च नीलघटो नीलघट: स स इत्यादौ शाब्दबोधापत्तिरिति वाच्यं तयोरप्युक्तज्ञानव्याप्यत्वेन तादृशभेदापेक्षणात् । न च कालिकसम्बन्धेन घटत्वविशिष्ट समवायसम्बन्धेन घटत्वविशिष्टस्याभेदान्वयोऽनुभवसिद्धस्तत्र घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य घटत्वेऽपि सत्त्वान्न घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्यापकस्स बोध इति वाच्यं घटत्वनिष्ठनिरवच्छन्नावच्छेदकताविशिष्टावच्छेदकतासम्बन्धेन शाब्दबोधस्य व्याप्यत्वात् । वैशिष्टयं स्वनिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितत्वस्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन उद्देश्य य यत्र प्रकारता विधेयस्य विशेष्यता तत्र विशेष्यां
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy