SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमान जिन देशना ॥२५॥ आरोमशोभा कथा 日涨染染整张张继聯發能柴柴柴柴柴柴柴柴號號號號號號张继路聯強強路 भ्रष्टा तव शरणे समागताऽस्मि, इति तद्वचनैरंजितोऽसौ श्रेष्ठी भणति हे पुत्री ! मम गृहे त्वं सुखेन तिष्ठ ? अथ साबाला तच्छेष्ठिगृहकार्याणि कुर्वन्ती तत्र मुखेन स्थिता । श्रेष्ठिना च निजपुरुषान् प्रेष्य तस्सार्थस्य गवेषणा कारिता। परं कुत्रापि सार्थस्य वार्ता न श्रुता। अथ तेन श्रेष्ठिना कुलधरश्रेष्ठिपार्च निजभृत्यः प्रेषितः, तेन च तत्र गत्वा तस्मै पृष्टं 'हे श्रेष्ठिन् ! तव कति पुत्र्यः सपरिणीताः कति च कुमार्यः सन्ति ? तत्स्वरूपं कथय'. अथ कुलधरेणोक्तं 'ममाष्टौ पुत्र्यः सन्ति, तासु सप्त त्वस्मिन्नेव चंपानगरे परिणायिताः संति, एका च मे पुत्री वणिक्पुत्रेण सह परिणायिता तत्पतिना सह चौडदेशे गतास्ति', इति श्रुत्वा तेन भृत्येन पश्चादागत्य तत्सर्वं माणिभद्राय निवेदितं. अथ तां कुलधरसुतां विज्ञाय माणिभद्रस्तस्या बह्वादरं करोति, तस्याश्च विनयेन सर्वमपि नत्कुटुम्ब रञ्जितं, एवं तस्यास्तत्र सुखेन दिनानि यान्तिस्म. अथ तत्र माणिभद्रश्रेष्ठिनैकमुच्चस्तरतोरणध्वजालंकृतं जिनभवनं कारितं वर्तते, तत्र सा कुलधरपुत्री प्रत्यहं जिनपूजा करोति, साध्वीसंगमाच्च सा क्रमेण जीवाजीवादिनवतत्त्वविज्ञा सुलसासदृशो शुद्धश्राविका जाता बहुधनमिलनात्तया जिनबिम्बशीर्षोपरि स्वर्णरत्नखचितं छत्रत्रयं कारितं, विविधतपांसि च कृत्वा सुभावेन तदुद्यापनानि विहितानि, चतुर्विधसंघस्य वात्सल्यं च कृतं. अथान्यदा सा माणिभद्रष्टिनं चिन्तातुरं दृष्ट्वा प्रोवाच 'हे तात ! अद्य तव का चिन्ता वर्तते ?' तेनोक्तं 'हे वत्से राज्ञा पूर्व देवपूजनकृते ममैकः पुष्पफलाढ्यतरुधनघटालंकृतो वनखंडो दत्त आसीत्, तस्माच्च पुष्पादि समानीय प्रत्यहमहं देव 密密路參密染整茶柴柴柴柴茶染整等等等等藥藥器密器密警察整装装
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy