SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 20888 श्रीपर्द्धमान जिनदेशना ॥२४८॥ सद्दालपुत्र चरित्रम् ॥ *HENTION वर्षाण्यतिक्रांतानि, पंचदशे वर्षे चैकदार्द्धरात्रौ स मनसि चिंतयामास, अथाहं ज्येष्ठपुत्रे गृहमारं संस्थाप्य श्राद्धमतिमानामाराधनं कुर्वे. इति विचिंत्य स प्रभाते निजं सर्व कुटुंबं भोजयित्वा ज्येष्ठपुत्रे च सर्व गृहमारं समारोप्य स्वयं च पौषधशालां प्रमाज्यं दर्भसंस्तारकं कृत्वा भावतः सर्वत्रतानि संस्मृत्य विधिना श्राद्धप्रतिमा आराधयामास. ___ अथान्यदा नाशाग्रस्थापितनेत्रस्य प्रतिमास्थितस्य तस्याग्रे कोऽपि कृपाणपाणिः सुरः प्रकटीभूयोवाच भो सद्दालपुत्र ! चेत्त्वं स्वर्गापवर्गसुखानि समीहसे, तद्येतत्तपःकायोत्सर्गादिकष्टं त्वं मा कुरु ? व्रतानि त्यक्त्वा विविधान् भोगान् भुक्ष्व ? यदि च त्वं मम वचनं न करिष्यसि तदा तव ज्येष्ठपुत्रं गृहादानीयात्र तव समीपे मारयित्वा तस्य मांस तप्ततैलकटाहे पाचयिष्यामि, तद्रुधिरेण च त्वां स्नपयिष्यामि, तथा च त्वमार्तध्यानपतितोऽकाले मृत्युमवाप्य दुर्गतिं यास्यसि. एवं कर्णे तप्तत्रपुनिभं तद्वचनं श्रुत्वापि सद्दालपुत्रो मेरुवन्निश्चलीभूय धर्मध्यानान्न चलितः, तदा म कुपितो देवस्तस्य ज्येष्ठपुत्रं तत्रानीय मारयित्वा तस्य मांसं च तप्ततैलकटाहे पाचयित्वा तधिरेण तं स्नपयामास. तथापि तं सद्दालपुत्रं निश्चलं विज्ञाय स तस्य द्वितीयं तृतीयं चतुर्थं च पुत्रं क्रमेण तत्रानीय तथैवाकरोत्. तथापि तं धर्मध्यानस्थितमेव विज्ञाय स देवः कथयामास भो सद्दालपुत्र अद्यापि त्वं व्रतानि त्यक्त्वा मयोक्तं वचनं कुरु ? अन्यथा तवाग्निमित्रां भार्यामपि नूनमत्रानीय मारयित्वा तथैव करिष्यामि, एवं तेन द्वित्रिवारमुक्तोऽसौ सद्दालपुत्रो मनसि चिंतयामास अरे महादृष्टोऽयं प्रथम मे सुतान् मारयित्वाधुना मम धर्मे सहायभूतां भार्यामपि मारयितुमिच्छति, ततोऽथैतस्य दुरात्मनः पापकारिणोऽहं निग्रहं करोमिति ध्यात्वा यावत्स तद्गृहणाय धावितस्तावत्स देवस्तडिद्वद् गगने समुत्पतितः तदासौ B20NRN2888888888888888 ॥२४८॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy