SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिनदेशना ॥२४५॥ सद्दालपुत्र चरित्रम्।। 帝盛串聯帶殘端游游游游晓柴柴柴蒂蒂蒂蒂蒂蒂蒂蒂號號號號路第密哥 एवं जिनमुखाद द्विविधं धर्म श्रुत्वा सद्दालपुत्रेण कथितं 'हे भगवन् ! पंचमहाव्रतानां भारोद्वहनेऽहमसमर्थोऽस्मि, अतः सम्यक्त्वयुतं श्राद्धधर्म मे यच्छत ? ततोऽसावानंदवत् श्राद्धधर्म स्वीकृत्य परिग्रहादिपरिमाणं विधाय वीरजिनं नत्वा बहुपरिवारयुतः स्वगृहे समागत्य निजभायाँ प्रति जगाद, 'हे भद्रे मयाधुना श्रीवीरभाषितो धर्मः प्रतिपन्नोऽस्ति, अतस्त्वमपि प्रभुपार्श्वे गत्वा तं धर्म स्वीकुरु?' ____तत् श्रुत्वा हृष्टा सा निजसेवकानाकार्य कथयामास, 'भो सेवका यूयं यानं प्रगुणीकुरुत ? ततस्तेऽपि यानं प्रगुणीकृत्य तत्र समायाताः. ततः सा कृतस्नाता पवित्रवेषा दासीगणैः परिवृता याने समारुह्य श्रीवौरसमीपे समागता, प्रभु च त्रिः प्रदक्षिणीकृत्य नत्वाग्रे समुपविष्टा. वीरेणापि तस्या अग्रे धर्मः प्ररुपितः, धर्म श्रुत्वा रोमांचिता सती सा जिनं प्रत्येवमवादीत हे भगवन् ! पंचमहाव्रतग्रहणेऽहमसमर्था स्मि, अतो मह्यं सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि यच्छत ? ततो वीरप्रभुदत्तद्वादशवतानि गृहीत्वा प्रभुं नत्वा च सा गृहे समायाता. श्रीवर्द्धमानजिनोऽपि सुपर्वसंचारितनवसुवर्णकमलेषु पादौ स्थापयन्नन्यत्र विजहार. अत्र स सद्दालपुत्रोऽपि सकुटुंबः श्रीवीरजिनप्रज्ञप्तं जिनधर्म भावेन करोति, प्रवर्द्धमानश्रद्धया च यतीनां भक्तिं कुर्वस्तिष्ठति. अथ गोशालेन श्रुतं यत्सद्दालपुत्रो मम धर्म त्यक्त्वा बद्धमानजिनोक्तं धर्म प्रतिपद्य सन् तस्य साध्वादीनां बहभक्तिं करोतीति ततस्तेन चिंतितं हा हा स मे महाभक्तोऽपि वीरेण पतिबोध्यात्मीयमते स्थापितः! ततोऽधुनैवाहं पोलासपुरे गत्वा युक्तियुक्तदृष्टांतहेतुभिस्तं सद्दालपुत्रं प्रतिबोध्यात्मीयमते स्थापयामीति चित्ते विचार्य स स्वशिष्यसमूहयुत- 弟带带带游樂帶柴柴醫藥鱗器蒂蒂蒂蒂蒂蒂染染蒸蒸聯染带染器密 ॥२४५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy