SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आरामशोभा कथा श्री वर्द्धमान | विमातुरुपरि कुपितः सन् कथयामास, यदेतस्या दुष्टायाः पापफलं दर्शयामि, परमारामशोमया तत्पादयोर्लगित्वा स उपशाजिन देशमा मितः, ततस्तेन नागकुमारेण तत्र पातालगृहं कृत्वा तत्रैवारामशोभा स्थापिता, इतोऽसौ वनखंडोऽपि तत्र समागतः, सापि ॥१९॥ तत्रैव सुखेन तिष्ठति. अथ सा दुष्टा विप्रभार्या निजपुत्रों प्रसूतवतीवेवान्वितां विधाय पल्ल्यंके स्थापयामास. इतस्तत्र दासीवर्गोऽपि सर्वः समागतः, गतलावण्यां विवर्णां विपमतनुनयनां कुरूमां च तां दृष्ट्वा स दासीवर्गस्तां प्रति वदति, 'हे स्वामिनि ! तव शरीरवर्णादिशोभा सर्वापि कथं गता दृश्यते? एकमुक्ता सतीसा कृत्रिमारामशोभोवाच 'हे महाभागा नाहं जानामि, मम शरीरे कापि व्याधिरुत्पन्ना दृश्यते, तेन मे सर्व रूपादि विनष्टं.' तत् श्रुत्वा दासीभिरेषा वार्ता तस्या जनन्या अग्रे कथिता, तदा सापि मायाविनी निजहृदयं ताडयंती विलापान कुर्वन्ती पुत्रीपार्श्व समागता, पुत्रीं दृष्ट्वा चैत्र वदति, 'हे वत्से ! हे पुत्रि ! तवेदृश्यवस्था कथं जाता? किं कस्यापि दृष्टिलग्ना ? वा कोऽपि वातरोगो जातः ? वा तव कोऽपि प्रमतिरोगः समुत्पन्नः ? मया ये तवोपरि मनोरथाश्चिन्तितास्ते सर्वेऽपि निष्फला जाताः' ततस्तया मायाविन्या वहव उपायाः कृताः उत्तारणादिकानि कृतानि, परं सा तु तादृश्येव दृश्यते. अथ राज्या आनयनार्थ मंत्री समागतः, तदा सा कृत्रिमारामशोभा परिवारेण सहिता तेन सार्द्ध पाटलीपुत्रं प्रति चलिता, मार्गे चेटीभिरुक्तं 'हे स्वामिनि ! आरामस्त्वया सह कथं नंति? सावदत्स जलपानार्थ:कूपे प्रविष्टोऽस्ति, पश्चादेष्यति. अथ क्रमेण सा कृत्रिमारामशोभा नगरसमीपे यावत्प्राप्ता तावजितशत्रराज्ञा प्रवेशमहोत्सवपूर्वकं नगरमध्ये समानीता. 廢柴柴聯號跳號號號藥醫藥鱗器器紫藤藤柴柴柴聯聯榮發先染第 茶幾號樂器器器器端端暴斃器端器器器際聯柴柴柴柴柴晓晓得条路。 ॥१९॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy