SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रोवर्द्धमान जिनदेशनो ॥२३९॥ सद्दालपुत्र चरित्रम् ॥ 张馨器染染染整染染路參染等染器染器染染券染染染器樂器部路湖 विधिना स्नानं कृत्वा शुद्धवस्त्राणि परिधाय सुखासनस्थो महर्या जिनपाचे समागतः. प्रभुं प्रदक्षिणीकृत्य बंदित्वा चाग्रे निषण्णः. तदा प्रभुपरि मधुरया वाण्या धर्मोपदेशं कथयति. धर्मस्य रागो, विषयाणां विरतिः, कषायाणां त्यागो. गुणेष्वनुरागो, धर्मक्रियायां चाऽप्रमादः, एते सद्गतेरुपायाः संति. देशनांते जिनेद्रः सद्दालपुत्रप्रत्यवादीत् भो सदालपुत्र ! गतदिने एको देवस्तव पार्श्वे प्रक्रटीभूयोवाच प्रभाते सर्वदर्शी सर्वज्ञो जिनः समेष्यति, स सुरासुरैवैदनीयोऽस्ति, अतस्त्वयापि तत्पार्श्व गत्वा तस्मै वंदनं कार्य, पीठफलकशय्यासंस्तारकाथै च तस्य निमंत्रणा कार्येत्युक्त्वा स देवो गतः, ततस्त्वया चिंतितं नूनमेतल्लक्षणलक्षितो मे धर्माचार्यों गोशाला समेष्यतीति. तत् श्रुत्वा सद्दालपुत्रो मनसि चिंतयति नूनं देवोक्ताः सर्वे गुणा अस्मिन्नेव दृश्यंते. अतोऽसौ सर्वज्ञो जिनोऽस्ति. पुण्यहेतवे च ततोऽहमेनं शय्यासंस्तारकपीठफलकार्थं निमंत्रयामीति विमृश्य स नमस्कारपूर्वक श्रीवीरजिनेंद्रं निमंत्रयति, हे भगवन् ! अत्र पोलासपुरनगरे पंचशतानि मे कुलालहट्टानि विद्यते. ततो यूयं पादपीठशय्यासंस्तारकादि गृहीत्वा ममोपर्यनुग्रहं कुरुत? तत् श्रुत्वा श्रीवर्द्धमानजिनस्ततः शय्यासंस्तारकादि गृहीत्वा तस्य प्रतिबोधार्थ तत्र स्थितः. अथैकदा स प्रजापतिर्निजभांडान्यातपे स्थापयति, तदा तत्प्रतिबोधनार्थ जिनोवादीत् भो सद्दालपुत्र एते भांडास्त्वया कया रीत्या निष्पादिताः? तेनोक्तं हे भगवन् ! प्रथममहं खानितो मृत्तिकामानयामि, ततस्तां पानीयेनार्दीकृत्य मईयामि, ततस्तस्याः पिंडं कृत्वा चक्रे समारोप्य घटादि करोमि तदा जिनेंद्रेणोक्तं तर्हि किमेते घटादय उद्यमैर्विनैव जाताः ? 卡蒂貓茶器聯盛號幾號號號號號發盖驗器蒸蒸器鉴驚器类器能够除器等 ॥२३९॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy