SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिनदेशना ॥२२६॥ चुल्लगशसक चरित्रम् ॥ HERE NEWS 'हे स्वामिन् भवद्भिः कथं कोलाहलः कृतः ?' तदा तेन सर्वोऽपि व्यतिकरस्तस्या अग्रे कथितः, तेनोक्तं 'भो नाथ ! केनापि देवेनैवागत्य तवायमुपसर्गः कृतोऽस्ति. तव सर्वेऽपि पुत्राः सूखमुप्ताः संति.' ततोऽसौ दृष्टो गुरुपाचे समालोच्य विधिना श्राद्धधर्ममाराध्य प्रांते मासक्षपणं विधाय मृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुःपल्योपमायुर्देवो जातः. तत् भुत्वा गौतमेन पृष्टं 'हे भगवन् ! स ततश्च्युत्वा क्व यास्यति ?' प्रभुणोक्तं 'सो महाविदेहे सेत्स्यति.'॥ इति चुल्लगशतकस्य श्राद्धस्य चरित्रं सुधर्मस्वामिना जंबूस्वाम्यग्रे कथितं. ॥ इति श्रोवईमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण श्री राजकीर्तिगणिना गद्यबंधेन प्रणीतायां चुल्लगशतकप्रतिबोधो नाम पंचम उल्लासः समाप्त ॥ श्रोरस्तु॥ __अथ सुधर्मस्वामी जंबूस्वाम्यग्रे कुंडकोलिकश्राद्धस्य चरित्रं कथयति. 'इहैव भरतक्षेत्रे कांपिल्यपुराभिषं नगरमस्ति, तत्र शिलावर्त्तकामिधमुद्यान सहकारादिवृक्षोपेतं नंदनवनतुल्यं वर्तते. तत्र जितशत्रुराजा राज्यं करोति. तत्र बहुसमृद्धियुतः कुंडकोलिकाभिध एको गाथापतिर्वसति. पूषाख्या तस्य भार्या वर्तते. तस्य षट्पट्कोटिसुवर्ण व्याजे व्यापारे भूम्यां च वर्त्तते, षट् च गोकुलानि तस्य गृहे संति. अथान्यदा श्रीगौतमादिगणधरसहितः सकलसुरासुरैः प्रणतचरणः श्रीवर्धमानो जिनस्तत्रोद्याने समवसृतः.प्रभुं समवसृतं विज्ञाय स कुंडकोलिको हर्षेण रोमांचयुतो भूत्वा महर्या तत्रागत्य प्रभुं च त्रि प्रदक्षिणीकृत्य वदित्वोचितस्थानके समुपविष्टः प्रभुरपि धर्मोपदेशं कथयामास भो भो भव्याः कुशाग्रलमजलबिंदुवत्तरलं मनुष्यजीवितमस्ति, लक्ष्मीश्च समुद्रतरंगवच्चपला वर्तते, पुत्रकलत्रादिस्नेहश्च स्वप्नोपमोऽस्ति. एवंविधं संसारस्वरूपं विज्ञाय 器樂樂器帶藥聯號號號號驚器能帶懿驚艷驚驚驚器懿肇號幾號號聯端 ॥२२६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy