SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥१६॥ यद्ग्रामवासिस्त्रीणां चातुर्यं नास्तीति' प्रेरितो विप्रस्तस्या दुष्टभावमजानन् सरलाशयो घटं गृहीत्वा पाटलीपुत्रं प्रति चचाल. क्रमेण नगरासन्न प्रदेशं प्राप्य श्रान्तः सन् वटवृक्षस्याघो घटं मस्तके संस्थाप्य सुप्तः, निद्रा च तस्य समागता. sat वास्को क्षचिन्तयति अहोऽयं विप्रः किमर्थं नगरे प्रयाति ? ज्ञानोपयोगेन सर्व वृत्तान्तं विज्ञाय चिन्तयति, अरे ! अस्य विप्रस्य दृष्टया भार्यया विषमिश्रितमोदकान् कृत्वारामशोभाया मारणार्थमयं प्रेपितोऽस्ति, मयि समर्थे सत्यपि अस्याः को मरणदुःखं दातुं समर्थोस्ति ? अनया तु पूर्वभवे पुण्यान्यर्जितानि सन्तीति ध्यात्वा कुंभाद्विपमिश्रितमोदकानपहृत्य तत्स्थानेऽमृतसदृशा महास्वादुदिव्यमोदकाः क्षिप्ताः. इतो जागरिता विप्रस्तं कुंभं गृहीत्वा राजद्वारे समागतः, तदा प्रतिहारेण गज्ञे विज्ञप्तं 'हे स्वामिन्! आराम शोभायाः जनको द्वारे समागतोऽस्ति चेद्भवतामादेशस्तर्हि स भवद्दर्शनायात्र समागच्छेत्.' तत् श्रुत्वा राज्ञोक्तं 'शीघ्रमेव तं समानय' अथ विप्रस्तत्रागत्य राज्ञे आशीर्वाद दत्वा तदग्रे घटं मुमोच राज्ञा पृष्टं 'भो भट्ट ! वर्त्तते कुशलं ?' विप्रेणोक्तं 'हे राजन् ! भवतां प्रसादात्', पुनः राज्ञा पृष्टं 'भो ब्राह्मण ! अस्मिन् कुंभे किमस्ति ?' विप्र उवाच 'स्वामिन् ! पुत्रीनिमित्तं मात्रा मोहवशा-मोदकाः प्रेषिताः संति' संतुष्टेन राज्ञा स घट आरामशोभायै प्रेषितः विश्व वस्त्राभरणादिभिः सत्कृतः ततो राजारामशोभाया गृहे गत्वा राज्ञीदत्तासने उपविष्टः, राज्युवाच 'हे स्वामिन् ! यद्याज्ञा म्यात्तदाहममुं घटमुद्घाटयामि,' राज्ञोक्तं 'शिघ्रमुद्घाटय.' ततो यावद्राज्ञी घटमुद्घाटयति तावन्महासुगंधस्तत उच्छलितः, सर्वमप्यावासगृहं सुवासनया वासितं एवंविधान् दिव्यमादकान् दृष्ट्वा राजा दध्यौ, अहो एते मोदका नूनममृतरसनिर्मिता देवसान्निध्या जाताः आरामशोभा कथा ॥१६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy