SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिन देशना ॥२१॥ श्रीसुरादेव| चरित्रम् ॥ 288888888888888888888888888888888888 खड्गं करे गृहीत्वा प्रथमं पिष्टमेव धरित्र्यां पातयित्वा तस्य हृदये च पादं स्थापयित्वावदत् , 'रे दुष्ट ! अश्वमारुह्य त्वं क्व चलितोऽभूः ? इदानीमेव त्वां हनिष्यामि, अतस्तवेष्टदेवं त्वं स्मर? तदा स साहसिक उवाच 'रे निर्नाशिके प्रथम त्वं ममैकमश्नस्योत्तरं देहि ? केन वीरपुरुपेण तव नाशिका छेदिता तत् श्रुत्वा सा प्रसन्ना सती तं मुक्त्वा प्राह ' हे वत्स ! शृणु ? अस्मिन् भरतक्षेत्रे मनोरमाभिधं नगरं वर्तते, तत्र मनोरथाभिधो राजा राज्यं करोति. तस्य मणिमालाभिधा राज्ञी वर्त्तते, तया च राज्यानुक्रमेण सप्त पुत्रा जनिताः, अष्टमे गर्भे चाहं पुत्री जनिता. क्रमेण पंचधात्रीभिाल्यमानाहं सर्वकलासु प्रविणीभूय यौवनं प्राप्ता. मंत्रतंत्रादिषु मे महानभिलाषो जातः, तेन वशीकरणमोहनस्तंभनोच्चाटनराक्षसीविद्याशाकिनि, मारणविद्याबलिविधिसूर्यचंद्रग्रहाद्याकर्षणपातालपवेशस्वर्गगमनादिविद्यानां महामंत्राण्यहं जानामि. मृतसंजीविन्यादिविद्या अपि मया शिक्षिताः संति. ___अन्यदा मया सुराधिपस्य महामंत्रः साधितः, स च मे सफलो जातः, तत्प्रभावेण चाहमिंद्रभवने गता, तदेंद्रस्याग्रे हाहाहूहूतुंबरुरंभाचैर्नाटकं प्रारब्धमासीत् , मयापि तन्नाटयविधिः शिक्षितः, ततश्चैकदा मयापींद्रस्याग्रे नृत्यं कृतं, तदा हृष्टे नंद्रेणोक्तं त्वं वरं वृणु ? मयोक्तं 'हे प्रभो यदि तुष्टोऽसि तर्हि त्वं मे भर्ता भव ?' इन्द्रेणापि तत्प्रतिपन्नं, एवं ममेन्द्रेण | सह संयोगो जातः, एवं नित्यमहं देवलोके गृहे च गमनागमनं कत लग्ना. अन्यदेकेन मालाकारेण मह्यमुक्तं भो भदे मम मनसि देवलोकमिद्रं तव नाटकं च दृष्टुं महानभिलाषोऽस्ति, तेन मां | तत्र त्वया सह नय ? मया गाढं निवारितोऽपि स निजाग्रहं नामुंचत्. ततोऽहं तमलिरूपं विधाय मद्धम्मिले च क्षिप्त्वा 染聯染能够整部部继柴柴柴柴聯验游跳单张柴柴聯聯柴柴柴继端游 ॥२१३॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy