SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 10223822288-2680* चुलनी पिताश्रावक चरित्रम् ॥ भी बर्द्धमान | गाथां कृपां विधाय कथयत ? गुरुरुवाचजिन देशना रफलसंपत्तीए समो। गयाइं तुंगाई फलविवत्तीए॥ हिअया सुपरिसाणं । महातरूण व सिहराई ॥१॥ ॥१९५॥ ततो गुरुणोक्तं 'हे वत्स ! त्वयाहं सम्यक् स्मारितः, अथ मयापि विषादस्त्यक्तः. ततोऽसौ दिगंबराचार्यः शिष्ययुतो राजद्वारे गतः, राज्ञापि वंदनपूर्वकं तस्यासनं दत्तं. अमात्येनोक्तं ' भगवन्नद्य यूयमुपकरणरहिताः कथं समागताः! गुरुणोक्तं ' तेन चौरेण वयमपि मुषिताः, अस्माकमपि सर्वस्वं गृहीत्वा स पलायितः.' ततो राज्ञा विसृष्टः स दिगंबराचायोsपि स्वस्थाने समागतः। ____ अथ मैत्रिणा चौरस्वरूपज्ञानाय नारायणाभिधश्चतुर्वेदपारंगामी सन्यासी समाकारितः, सोऽपि तत्रागत्य राज्ञे चाशी दं दत्वा नृपदत्तासने समुपविष्टः, मंत्रिणोक्तं 'भो सन्यासिन् ! ज्ञानेन विलोक्य तस्करस्वरूपं कथयत ?' तेनोक्तं मंत्रबलेन विलोक्य कथयिष्यामि.' ततो राज्ञा कृतसन्मानः स सन्यास्यपि स्वस्थाने समागतः. अथ जननीमुखात्तवृत्तांतं श्रुत्वा सहस्रमल्लो बटुकब्राह्मणवेषं विधाय नारायणपार्श्व समागतः, नारायणेन पृष्टं कोऽसि त्वं ! कुतश्चात्र समागतः ?' तेनोक्तं विमोऽहमस्मि. भवतश्च वेदपारगान् श्रुत्वा भवत्समीपे वेदपाठाय समागतोऽस्मि.' सन्यासिनोक्तं त्वया सुखेनात्र स्थितेन वेदपाठः, कर्तव्यः अन्यत्र कुत्रापि न गंतव्यमि' त्युक्त्वा तेन स भोजितः. दिवसे तद्विनयतुष्टेन सन्यासिना रात्रौ स निजाश्रमे शयनं कारितः, स्वयं चैकांते गत्वा मंत्रजापमकरोत्. सर्वेषु शिष्येषु सुप्तेषु १ फलसंपत्त्या समः गतायां तुङ्गानि फलविवर्त्या हृदयानि सुपुरुषाणां महातरूणां च शिखराणि 张黎张黎举弟泰密密张张张张张亲亲亲亲张张张举弟弟弟弟弟弗器 *** ***09228888888888 ॥१९५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy