SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ tee श्रीवर्द्धमान जिन देशना ॥१९॥ चुलनीपिता श्रावक चरित्रम् 筛筛篮號聯藤藤藤號聯端端藤聯樂器藥號聯聯染號第 __ अथ कियता कालेन स दंडपाशिकोऽपि निजगृहे समायातः, तदा तद्भार्यया प्रोक्तं ' हे नाथ ! त्वं कथं मुक्तो जातः?' विस्मितेन तेनोक्तं 'केन बद्धोऽहं ? तयोक्तं 'राज्ञा, तेन प्रोक्तं 'हे भद्रे ! तवाग्रे तत्केन कथितं?' तयोक्तं त्वत्येषितमनुष्येण, किंच तव हस्तमुद्रापि तेन मे दर्शिता, कथितं च गृहसर्वस्वं मे देहि ? यथा मम गृहेऽहं तत्स्थापयामि.' तच छूत्वातीवदुःखितेन दंडपाशिकेनोक्तं ' रे मुग्धे ! मया तु कोऽपि मुक्तो नास्ति, ध्रुवं तेन धूर्तेनाहमपि मुष्टः.' अथ खिन्नो दंडपाशिको राज्ञोऽग्रे गत्वा निजस्वरूपं निवेदयामास. राज्ञोक्तं ' अरे ! यूयं सर्वेऽप्यथ दूरे तिष्ठत ? अहं स्वयमेव तं चौरं गृहीष्यामि. चेत् स पाताले आकाशे वा समुद्रेऽपि यास्यति तदा ततोऽप्यहं तं गृहीष्यामि.' तच्छ्रुत्वा तलारक्षकेणोक्तं | 'स्वामिन्नत्र कः संदेहः ? यतो जलदे वर्षति दुर्भिक्षं कियत्काल स्थास्यति ? अथ पुत्रप्रेषिता जननी लोकमुखात्तत्स्वरूपं विज्ञायागत्य पुत्राय कथयामास. 'हे पत्र ! अथाद्य तब जीवितव्यस्य संशयो वर्त्तते, यतः कुपितेन राज्ञा स्वयं तव ग्रहणाय प्रतिज्ञा कृतास्ति. तच्छ्रुत्वा चौरेणोक्तं ' हे अम्ब ! त्वया मनागपि न भेतव्यम्. अथासौ रजन्यामंगमईकवेषं कृत्वा नृपद्वारे गत्वा द्वारपालं प्रति वदति, 'भो द्वारपाल! त्वं गत्वा राजे कथय ? यद्देशांतरात्कोऽपि कलाकुशलोंगमर्दकः समागतोऽस्ति, द्वारि च तिष्ठति, यद्याज्ञा चेत्तर्हि समागच्छेत्.' तच्छत्वा द्वारपालेन गत्वा राज्ञे तनिरूपितं, राज्ञोक्तं ' तं शीघ्रं मध्ये प्रवेशय ?' अथ तेन प्रवेशितः सहस्रमल्लो राज्ञोऽग्रे गत्वा विनयेन कथयामास 'भो राजन् त्वं मे कलाकौशलं पश्य ?' इत्यु 张继然能舉染樂器樂器跳跳跳號號聯號柴柴柴聯继器端端藥藥鑒樂器 ॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy