SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥१२५॥ श्रीसुरसेन महसेन कथा ॥ 端端竞聽聽聽聽聽聯聯晓晓曉曉聯聯號聯端端聽器 व्रतं देहि ? इत्युक्त्वानंदगाथापतिभॊगोपभोगप्रमाणं करोति, तद्यथा-'शरीरलूहनकृते ममैका सुगन्धकाषाय्यशाटिका मुकला, ज्येष्टीमधुककम्बिका दन्तशोधनकृते मुत्कला, अंगमर्दनकृते शतपाकसहस्रपाके तैले मुत्कले, उद्वर्तनकृते सुरभिद्रव्यमिश्रितं गोधूमपिष्टं मुत्कलं, स्नानकृते बृहदष्टोष्णजलभृता घटा मुत्कलाः परिधानकृते एकं क्षौमयुगलं मुत्कलं विलेपन| कृते कर्परमिश्रितं चन्दनं मुत्कलं, पुष्पेषु कमलपुष्पाणां माला मुत्कला, आभरणेषु कर्णकुण्डले नामांकिता मुद्रिका च मुत्कला, धूपेष्वगुरुसेल्हारसधूपो मुत्कलः, भोजने घृततैले मुत्कले, पक्वान्ने धृतपूरखजौं शर्कराभृतौ मुत्कलौ, तण्डिलेषु कलमशालयो मुत्कलाः, द्विदलेषु मुङ्गमाषौ मुत्कलौ, आश्विनकात्तिकनिष्पन्नं घृतं मुत्कलं, बुब्बुकमण्डिकसोवच्छिकशाकानि मुत्कलानि, जातिफलककोलकपूरैलालवंगमिश्रं तांबूलं मुत्कलं, आकाशजलं मुत्कलं, एवं तेन यावजीवं भोगोपभोगविरमणव्रतनियमः कृतः. अष्टममनर्थदण्डविरमणव्रतम् अथानथदंडोपरि कथ्यते-य: श्राद्धोष्टमं व्रतं पालयति स इह भवे सूरसेनवत् सुखी स्यात्, यश्च न पालयति स महसेनवद् दुःखी भवति. तथाहि-"क्षितिप्रतिष्ठितनगरे श्रीवीरसेनराजा न्यायपूर्वकं राज्यं करोति, तस्य कमलावती रानी, * तस्याः कुक्षौ सूरसेनमहसेनाभिधौ द्वौ पुत्रावुत्पन्नौ. तौ सौभाग्यवंतौ रूपवंतौ परस्परं च स्नेहवन्तावभूतां. अथकदा महसेनस्य जिह्वायां रोग उत्पन्नः, तेनात्यंतपीडातः स नारकवत्पूत्कारं करोति, ये लोकाश्च तस्याक्रन्दनं | 號號音樂聽聽聽聽聽聽聽器聽器聽器端器器端端端樂器器鉴藥聯 ॥१२५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy