SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रो बर्द्धमान जिन देशना ॥१११॥ श्रीचारुदत्त कथा॥ 聽器聽聽器端鑑證號驚艷驚艷艷驚艷器器端端端端端端端端端照 वराणां सिद्धानां साधूनां च नमस्कारं करोति, प्राणातिपातमलोकमदत्तादानं मैथुनं परिग्रहं रात्रिभोजनं च प्रत्याख्याति, प्रमादं त्रिविधेन त्यजति, चतुर्विधाहारं प्रत्याख्याय सागार्यनशनं प्रतिपद्यते, आत्मानं च समाधौ संस्थाप्य चतुर्विधं शरणं करोति, तद्यथा| अरिहंता मे शरण, सिद्धा मे शरणं, साधवो मम शरणं, केवलिप्रज्ञप्तो धर्मश्च मे शरणं भवतु. माता पिता भार्या भगिनी सुता पुत्रादिप्रचुरस्नेहिपरिवारोऽपि मरणमुखप्राप्तानां जीवानां शरणाय न भवंति. त एव धन्याः कृतपुण्या ये तृणमिव लक्ष्मी त्यक्त्वा संसारान्निर्गताः, मादृशा लोभान्धा द्रव्यकांक्षिणो नूनमीदृशीमवस्थां प्राप्नुवन्ति' अथ कूपमध्यस्थितो नरस्तं प्रत्युवाच 'भो साधर्मिक! त्वं दुःख मा कुरु ? शक्रोऽपि पुराकृतं कर्मापनेतुं न समर्थों भवति, पूर्वकृतकर्मणामेव फलं जीवो लभते. अद्यतस्तृतीये दिवसे गोधैकैतसं पातुमिह समायास्यति, तदा त्वं तत्पुच्छ धृत्वा कूपाबहिनिस्सरेः, अन्यः कोऽप्युपायो नास्ति.' ___अथ चारुदत्तो निजजीवितोपायं श्रुत्वातीवहृष्टो जातः. अथ स पूर्वपतितमनुष्यस्तत्र पंचपरमेष्टिनमस्कारं ध्यायन् गलितशरीरो मृतः. इतस्तृतीये दिवसे सुरसुरशब्दं कुर्वती गोधा तत्र समागता, रसं पीत्वा च यावत्सा पश्चाद्वलिता तावजीवितव्याशया चारुदत्तेन तत्पुच्छं गृहीतं, गोधापि शीघ्र कृपानिर्गता, तदा यथा जीवो गर्भावासानिस्सरति तथा चारुदत्तोऽपि घृष्टांगोपांगः कूपानिःसृतः, गोधायाः पुच्छं मुक्त्वा श्रीनवकारमंत्र स्मरंस्तत्र स्थितः, ततोऽसौ याबदग्रे चलितस्तावदेको वनमहिपस्तं दृष्ट्वा 器器整器器際競器器蒂聽器器器继器器鑑聽器验器端露露聽器器晚 ॥११॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy