SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ परिशिष्टं प्रथमम् ॥ ॥ अथ धातु-प्रत्ययानुबन्धफलप्रतिपादिकाः कारिकाः ॥ उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिनिषेधने । इकारादात्मनेपद, मीकाराचोभयं भवेत् ||१|| उदितः स्वरानोऽन्तश्चोः क्त्वादाविटो विकल्पनम् । रूपान्त्ये डेपरेऽह्रस्व ऋकारादविकल्पकः ॥२॥ लकारादङ् समायात्येः सिचि वृद्धिनिषेधकः । ऐः तयोरिनिषेधः स्या, दोः तयोस्तस्य नो भवेत् ॥३॥ औकार इड्विकल्पार्थे ऽनुस्वारोऽनिविशेषणे । लकारश्च विसर्गश्चाऽनुबन्धो भवतो न हि ||४|| कोऽदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । नोभयपदी प्रोक्तो घश्च च-जोः कगौ कृतौ ॥५॥ आत्मने गुणरोधे वो दिवादिगणो भवेत् । ओ वृद्धौ वर्तमाने क्तः टः स्वादिष्ठधु [रथु] कारकः ॥ ६ ॥ त्रिमगर्यो डकारः स्याण् णश्शुरादिश्च वृद्धिकृत् । तस्तुदादी नकारश्चाऽपुंसीति विशेषणे ||७|| रुधादौ नागमे पो हि मो दामः सम्प्रदानके । यस्तनादौ रकारः स्यात् पुंवद्भावार्यसूचकः ॥८॥ स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः षः षितोऽविशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । घातूनां प्रत्ययानाञ्चाऽनुबन्धः कथितो मया ||१०|| ३२६ ,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy