SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भूतानद्यतनेऽर्थे वर्तमानाद् धातोः स्मे पुराऽऽदी चोपपदे 'वर्तमाना' स्यात् । पृच्छति स्म पुरोधसम्, वसन्तीह पुरा छात्राः, अथाऽऽह वर्णी ॥१६॥ ननौ पृष्टोक्तौ सद्धत् ।५।२।१७॥ ननावुपपदे पृष्टप्रतिवचने मूतेऽर्थे वर्तमानाद् धातो-'वर्तमानेव वर्तमाना' स्यात् । किमकार्षीः कटं चैत्र ! ननु करोमि भोः, ननु कुर्वन्तं मां पश्य ॥ न-चोर्वा ।५।२॥१८॥ न-न्वोरुपपदयोः पृथक्तौ भूतेऽर्थे वर्तमानाद् धातो-' वर्तमाना' स्यात्, सा च 'सद्वत्' । किमकार्षीः कटं चैत्र ? न करोमि भोः, न कुर्वन्तं मां पश्य, नाकार्षम् नु करोमि भोः ! नु कुर्वाणं मां पश्य, न्वकार्षम् ॥१८॥ सति ।५।२॥१९॥ वर्तमानार्थाद् धातो '-वर्तमाना' स्यात् । अस्ति; करं पचति, मांसं न भक्षयति, इहाधीमहे, तिष्ठन्ति पर्वताः ॥१९॥ शत्रानशावेष्यति तु सस्यौ ।५।२।२०॥ सदर्थात् धातोः 'शत्रानशौ' स्याताम्, भविष्यन्ती विषयेऽर्थे "स्ययुक्तौ । यान्, शयानः, यास्यन्, शयिष्यमाणः ॥२०॥ तौ माझ्याक्रोशेषु ।५।२॥२१॥ माझ्युपपदे आक्रोशे गम्ये 'तौ शत्रानशावेव' स्याताम् । मा पचन् वृषलो ज्ञास्यति, मा पचमानोऽसौ मर्तुकामः ॥२१॥ वा वेत्तेः क्वसुः ।५।२।२२॥ सदर्यात् वेत्तेः 'क्वसुर्वा' स्यात् । तत्त्वं विद्वान, विदन् ॥२२॥ पूट - यजः शानः ।५।२।२३॥ आभ्यां सदाभ्यां परः 'शानः' स्यात् । पवमानः यजमानः ॥२३॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy