SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अवेः संघात-विस्तारे कट-पटम् ।७।१।१३२॥ अवेरर्थात् षष्ट्यन्तात् संघाते विस्तारे चार्थे ययासंख्यं 'कट-पटी' स्याताम् । अविकटः संघातः, अविपटो विस्तारः ॥१३२।। पशुभ्यः स्थाने गोष्ठः ।७।११३३॥ पश्वर्येभ्यः षष्ट्यन्तेभ्यः स्थानेऽर्थे 'गोष्ठः' स्यात् । गोगोठम्, अश्वगोष्ठम् । द्वित्वे गोयुगः 1७191१३४॥ पश्वर्येभ्यस्तस्य द्वित्वेऽर्थे-'ऽयं' स्यात् । गोगोयुगम् ।।१३४॥ षट्त्वे षड्गवः ७१।१३५॥ पश्वर्थेभ्यस्तस्य षट्त्वे-'ऽयं' स्यात् । हस्तिषड्गवम् ||१३५।। तिलादिभ्यः स्नेहे तैलः १७११३६॥ एभ्यस्तस्य स्नेहेऽर्थे 'तैलः' स्यात् । तिलतैलम्, सर्षपतैलम् ॥१३६।। तत्र घटते कर्मणष्ठः ७१११३७॥ तत्रेति- झ्यन्तात् कर्मशब्दाद् घटते इत्यर्थे 'ठः' स्यात् । कर्मठः ॥१३७॥ तदस्य सज्जातं तारकादिभ्य इतः ७।१।१३८॥ तदिति- स्यन्तेभ्य एभ्योऽस्येति- षड्यर्थे 'इतः' स्यात्, स्यन्तं सज्जातं चेत् । तारकितं नमः, पुष्पितस्तरुः ॥१३८|| गर्भादप्राणिनि १७।१।१३९॥ गर्मात् तदस्य सञ्जातमित्यर्थे 'इतः' स्यात्, न तु प्राणिनि । गर्मिती व्रीहिः ॥ प्रमाणान्मात्रट् ७१।१४०॥ स्यन्तात् प्रमाणार्थात् षष्ठ्यर्थे 'मात्रट्' स्यात् । आयामः प्रमाणम् । जानुमात्रं जलम्, तन्मात्री भूः ॥१४०॥ हस्ति-पुरुषाद् वाऽण् ।७।१।१४१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy