SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अस्माद् ऋत्विगर्थात् तस्य भावे कर्मणि 'त्वः' स्यात् । ब्रह्मत्वम् ॥७७॥ शाकट - शाकिनौ क्षेत्रे | ७|१|७८ || षष्ठ्यन्तात् क्षेत्रेऽर्थे 'एती' स्याताम् । इक्षुशाकटम्, शाकशाकिनम् ||७८|| धान्येभ्य ईनञ् | ७|१|७९ ॥ धान्यार्थेभ्यः षष्ठ्यन्तेभ्यः क्षेत्रेऽर्थे 'ईनञ्' स्यात् । मौद्गीनम्, कौद्रवीणम् ॥ व्रीहि - शालेरेयण | ७|१|८०| आभ्यां तस्य क्षेत्रे 'एयण्' स्यात् । त्रैहेयम्, शालेयम् ॥८०॥ यव - यवक - षष्टिकाद् यः | ७|१|८१ ॥ एभ्यस्तस्य क्षेत्रे 'यः' स्यात् । यव्यम् यवक्यम्, षष्टिक्यम् ||८१ || वाऽणु- माषात् ।७।१।८२ ॥ आभ्यां तस्य क्षेत्रे 'यो वा' स्यात् । अणव्यम्, आणवीनम्; माष्यम्, माषीणम् ॥ ८२ ॥ बोमा भङ्गा - तिलात् 1७1१1८३ ॥ एभ्यस्तस्य क्षेत्रेऽर्थे 'यो वा' स्यात् । उम्यम्, औमीनम् भङ्ग्यम्, भाङ्गीनम्, तिल्यम्, तैलीनम् ॥८३॥ अलाब्वाश्च कटो रजसि | ७|१|८४ | अस्मादुमादेश्च तस्य रजस्यर्थे 'कटः' स्यात् । अलाबूकटम्, उमाकटम्, भङ्गाकटम्, तिलकटम् ॥८४॥ अह्ना गम्येऽश्वादीनञ् | ७|१/८५ ॥ षष्ठ्यन्तादश्वादेकेनाह्ना गम्येऽर्थे 'ईनञ्' स्यात् । आश्वीनोऽध्वा ॥ ८५ ॥ कुलाज्जल्पे | ७|१|८६ ॥ षष्ठ्यन्तात् कुलाज्जल्पेऽर्थे 'ईनञ्' स्यात् । कौलीनः ॥८६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy