SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् - दौत्यम् ॥६३॥ स्तेनानलुक च ७१६४॥ स्तेनात् तस्य भावे कर्मणि च 'यः' स्यात्, तद्योगे च 'नस्य लुक्' । स्तेयम्, स्तेनत्वम्, स्तेनता, स्तन्यम् ।।६४।। कपि-ज्ञातेरेयण ।७।११६५॥ आभ्यां तस्य भावे कर्मणि च 'एयण' स्यात् । कापेयम्, कपित्वम्, कपिता; ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता ॥६५॥ प्राणिजाति-वयोऽर्थादज ७१।६६॥ प्राणिजात्यर्थाद् वयोऽर्याच तस्य भावे कर्मणि चा-'ऽज्' स्यात् । आश्वम्, अश्वत्वम्, अश्वता; कौमारम्, कुमारत्वम्, कुमारता ॥६६॥ युवादेरण ७।१।६७॥ एभ्यस्तस्य भावे कर्मणि चा-'ऽण् स्यात् । यौवनम्, युवत्वम्, युवता; स्थाविरम्, स्थविरत्वम्, स्थविरता ॥६७।। हायनान्तात ७११६८॥ अस्मात् तस्य भावे कर्मणि चा-'ऽण् स्यात् । द्वैहायनम्, विहायनत्वम्, द्विहायनता ॥६८॥ वर्णालघ्वादेः ७१।६९॥ लघुरादिः समीपो येषामि-उ-ऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्मणि चा-'ऽण्' स्यात् । शौचम्, शुचित्वम्, शुचिता; एवं- हारीतकम्, पाटवम्, वाघवम्, पैत्रम् । लघ्वादेरिति किम् ? पाण्डुत्वम् ॥६९॥ पुरुष-हृदयादसमासे ७१७०॥ आभ्यामसमासविषयाभ्यां तस्य भावे कर्मणि चा-'ऽण् स्यात् । पौरुषम्, पुरुषत्वम्, पुरुषता, एवं- हार्दम् । असमास इति किम् ? परमपुरुषत्वम्,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy