SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् काच्छकमस्य स्मितम् ॥५५॥ कोपान्त्याचाऽण् ।६।३१५६॥ कोपान्त्यात् कच्छादेव देशाच्छेषे-'ऽण्' स्यात् । आर्षिकः, काच्छ:, सैन्धवः ॥५६॥ गतॊत्तरपदादीयः ।६३।५७॥ अस्माद् देशार्थाच्छेषे 'ईयः' स्यात् । श्वाविद्गीयः ॥५७॥ चः ।६।३१५८॥ कटपूर्वपदात् प्राग्देशार्थाच्छेषे 'ईयः' स्यात् । कटग्रामीयः ॥५८॥ क-खोपान्त्य-कथा-पलद-नगर-ग्राम-ह्रदोत्त ६३५९॥ कुपान्त्यात् खुपान्त्यात् कन्थाधुत्तरपदाच देशार्थाद् दोः शेषेऽर्थे 'ईयः' स्यात् । आरीहणकीयः, कौटशिखीयः, दाक्षिकन्थीयः, दाक्षिपलदीयः, दाक्षिनगरीयः, माहकिग्रामीयः, दाक्षिहूदीयः ॥५९॥ पर्वतात् ।६।३।६०॥ अस्माद् देशार्थाच्छेषे 'ईयः' स्यात् । पर्वतीयो राजा ॥६०॥ अनरे वा ।६३।६१॥ पर्वताद् देशार्थान्नृवर्जे 'ईयो वा' स्यात् । पर्वतीयानि, पार्वतानि फलानि ॥६१॥ पर्ण-कृकणाद् भारद्वाजात् ।६।३।६२॥ आभ्यां भारद्वाजदेशार्थाभ्यां शेषे 'ईयः' स्यात् । पर्णीयः, कृकणीयः ॥६२॥ गहादिभ्यः ।।३।६३॥ एभ्यो यथासम्भवं देशार्थेभ्यः शेषे 'ईयः' स्यात् । गहीयः, अन्तस्थीयः ।। पृथिवीमध्यान्मध्यमचास्य ।६।३।६४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy