SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १०९ दध्न इकण् ।६।।१४३॥ दनः सप्तम्यन्तात् संस्कृते भक्ष्ये 'इकण्' स्यात् । दाधिकम् ।।१४३।। वोदश्वितः ।६।२।१४४॥ अस्मात् सप्तम्यन्तात् संस्कृते भक्ष्येऽर्थे 'इकण वा' स्यात् । औदश्वितिकम्, औदश्वितम् ॥१४४॥ क्वचित् ।६।२।१४५॥ अपत्यादिभ्योऽन्यत्रार्थे क्वचिद् 'यथाविहितं प्रत्ययः' स्यात् । चाक्षुषं रूपम्, आश्वो रथः ॥१४५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिटमचन्द्रामिपानस्वोपनशदानुशासन रुपवृत्ती पाठस्याध्यायस्य द्वितीयः पादः समाप्तः ॥१२॥ मृदित्वा दोःकण्डूं समरभुवि वैरिक्षितिभुजां, भुजादण्डे दधुः कति न नवखण्डां वसुमतीम् ॥ यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा, यशो योगीशानां पिबसि नृप ! तत् कस्य सदृशम् ॥२२॥ तृतीयः पादः ] शेषे ६३१॥ अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे 'इतोऽनुक्रम्यमाणं' वेदितव्यम् ॥१॥ नयादेरेयण ।६३॥२॥ एभ्यः प्राग्जितीये शेषेऽर्थे 'एयण' स्यात् । नादेयः, वानेयः । शेष इत्येवसमूहे- नादिकम् ॥२॥ राष्ट्रादियः ।६।३॥३॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy