SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्कभ्नः ॥२॥३॥५५॥ वेः स्कन्नः सः 'ष् नित्यम्' स्यात् । विष्कम्नाति ॥५५।। निर्-दुःसु-वेः सम-सूतेः ।२।३॥५६॥ एभ्यः परस्य सम-सूत्योः सः ‘ष्' स्यात् । निःषमः, दुःषमः, सुषमः, विषमः, निःषूतिः, दुःषूतिः, सुषूतिः, विषूतिः ॥५६॥ अवः स्वपः ।२।३१५७॥ निर्-दुःसु-विपूर्वस्य वहीनस्य स्वपेः सः 'ष' स्यात् । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः । अव इति किम् ? दुःस्वप्नः ॥५७॥ प्रादुरुपसर्गायस्वरेऽस्तेः ।।३।५८॥ प्रादुरुपसर्गस्थाच नाम्यादेः परस्या-ऽस्तेः सो यादी स्वरादौ च परे 'ष' स्यात् । प्रादुःष्यात्, विष्यात्, निष्यात्; प्रादुःषन्ति, विषन्ति, निषन्ति । यस्वर इति किम् ? प्रादुःस्तः ॥५८॥ न स्सः ।२।३१५९॥ कृतद्वित्वस्य सस्य 'ए न' स्यात् । सुपिस्स्यते ॥५९।। सिचो यडि ।२।३।६०॥ सिचः सो यङि 'न' स्यात् । सेसिच्यते ॥६०॥ गतौ सेधः ।२।३१६१॥ गत्यर्थस्य सेधः सः 'ष् न स्यात् । अभिसेधति गाः । गताविति किम् ? निषेधति पापात् ॥६१॥ सुगः स्य-सनि ।२।३।६२॥ सुनोतेः सः स्ये सनि च 'ष् न' स्यात् । अभिसोष्यति, सुसूषते क्विप् - सुसूः ॥६२॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy