SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् केशेषु चमरीं हन्ति, सीम्नि पुष्कलको हतः ||१|| ” तद्युक्त इति किम् ? वेतनेन धान्यं लुनाति ||१००|| ७३ अप्रत्यादावसाधुना ॥ २२॥१०१॥ प्रत्यादेरप्रयोगे, असाधुशब्देन युक्तात् 'सप्तमी' स्यात्, असाधुर्मैत्रो मातरि । अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति परि अनु अभि वा ॥१०१॥ साधुना | २|२|१०२॥ अप्रत्यादौ साधुशब्देन युक्तात् 'सप्तमी' स्यात्, साधुमैत्रो मातरि । अप्रत्यादावित्येव - साघुर्मातरं प्रति परि अनु अभि वा ||१०२ || निपुणेन चाऽर्चायाम् | २|२|१०३॥ निपुण - साधुशब्दाभ्यां युक्तादप्रत्यादी 'सप्तमी' स्यात्, अर्चायाम् । मातरि निपुणः साधुर्वा । अर्चायामिति किम् ? निपुणो मैत्रो मातुः, मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव निपुणो मैत्रो मातरं प्रति परि अनु अभि वा ॥१०३॥ - स्वेशेऽधिना | २|२|१०४ ॥ स्वे - ईशितव्ये ईशे च वर्त्तमानादधिना युक्तात् 'सप्तमी' स्यात् । अधिमगधेषु श्रेणिकः, अधिश्रेणिके मगधाः ||१०४ || उपेनाऽधिकिनि । २।२।१०५ ॥ उपेन युक्तादधिकिवाचिनः 'सप्तमी' स्यात् । उपखार्यां द्रोणः ||१०५ ॥ यद्भावो भावलक्षणम् ।२।२।१०६॥ - भावः क्रिया, यस्य भावेनाऽन्यो भावो लक्ष्यते तद्वाचिनः 'सप्तमी' स्यात् । गोषु दुह्यमानासु गतः ||१०६॥ गते गम्येऽध्वनोऽन्तेनैकार्य्यं वा |२| २|१०७ ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy