SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ७१ नोभयोर्हेतोः ।२।२१८९॥ उभयोः- कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव 'षष्ठी न' स्यात् । नेतव्या ग्राममजा मैत्रेण ॥८९॥ तृन्नुदन्ता-ऽव्यय-क्वस्वाना-ऽतृश्-शतृ-डि-णकच् खलर्थस्य ।२।२।९०॥ तृनादीनां कृतां कर्मकोंः 'षष्ठी न' स्यात् । तॄन् वदिता जनापवादान् । उदन्त-कन्यामलङ्करिष्णुः, श्रद्धालुस्तत्वम् । अव्यय-कटं कृत्वा, ओदनं भोक्तुं व्रजति । क्वसु-ओदनं पेचिवान् । आन- कटं चक्राणः, मलयं पवमानः, ओदनं पचमानः, चैत्रेण पच्यमानः । अतृश्- अधीयंस्तत्त्वार्थम् । शतृ- कटं कुर्वन् । डि- परीषहान् सासहिः । णकच्- कटं कारको व्रजति । खलर्थईषत्करः कटो भवता, सुज्ञानं तत्त्वं त्वया ॥१०॥ क्तयोरसदाधारे ।२।२।९१॥ सतो- वर्तमानादाधाराधान्यत्रार्थे यो क्त-क्तवतू तयोः कर्म-कोंः 'षष्ठी न' स्यात् । कटः कृतो मैत्रेण, ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां पूजितः, इदं सक्तूनां पीतम् ॥११॥ वा कीबे ।२।२।९२॥ क्लीबे विहितस्य क्तस्य कर्तरि 'षष्ठी वा (न)' स्यात् । मयूरस्य मयूरेण वा नृत्तम् ।।९२॥ अकमेरुकस्य ।।२।९३॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि 'षष्ठी न स्यात् । भोगानभिलाषुकः । अकमेरिति किम् ? दास्याः कामुकः ॥१३॥ एव्यदृणेनः ।२।२।९४॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy