SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अवधिर्मर्यादा -ऽभिविधिश्च तद्वृत्तेराङा युक्तात् 'पञ्चमी' स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः ॥७०॥ पर्यपाभ्यां वर्ज्य | २२|७१॥ वर्ज्ये - वर्जनीयेऽर्थे वर्त्तमानात् पर्यपाभ्यां युक्तात् 'पञ्चमी' स्यात् । परि अप वा पाटलिपुत्राद् वृष्टो मेघः । वर्ज्य इति किम् ? अपशब्दो मैत्रस्य ॥ ७१ ॥ यतः प्रतिनिधि- प्रतिदाने प्रतिना । २/२/७२॥ प्रतिनिधिर्मुख्यसदृशोऽर्थः प्रतिदानम् - गृहीतस्य विशोधनम्, ते यतः स्यातां तद्वाचिनः प्रतिना योगे 'पञ्चमी' स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रति माषानस्मै प्रयच्छति ॥७२॥ , आख्यातर्युपयोगे |२| २|७३॥ आख्याता प्रतिपादयिता, तद्वाचिनः 'पञ्चमी' स्यात्, उपयोगे - नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा । उपयोग इति किम् ? नटस्य शृणोति ॥ ७३ ॥ गम्ययपः कर्माssधारे | २|२|७४ || गम्यस्याऽप्रयुज्यमानस्य यबन्तस्य कर्माऽऽधारवाचिनः 'पञ्चमी' स्यात् । प्रासादादासनाद्वा प्रेक्षते । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते, आसने उपविश्य भुङ्क्ते ॥७४॥ प्रभृत्यन्याऽर्थ - दिक्शब्द - बहिरारादितरैः | २|२|७५ ॥ प्रभृत्यर्थैरन्याथैर्दिक्शब्दैर्बहिरादिभिश्च युक्तात् 'पञ्चमी' स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य; अन्यो भिन्नो वा मैत्रात् ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाद् युधिष्ठिरः; बहिर् आरात् इतरो वा ग्रामात् ॥ ७५ ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy