SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६२ श्रासदहमचन्द्रशब्दानुशासनम् लक्षणं चिह्नम्, वीप्साकर्म वीप्स्यम्, इत्थम्भूतः किञ्चिप्रकारमापत्रः, एषु वर्तमानादभिना युक्ताद् ‘द्वितीया' स्यात् । वृक्षमभि विद्युत्, वृक्षं वृक्षमभिसेकः, साधुमैत्रो मातरमभि । लक्षणादिष्विति किम् ? यदत्र ममाभि स्यात् तद् दीयताम् ॥३६॥ भागिनि च प्रति-पर्यनुभिः ।२।२॥३७॥ स्वीकार्योंशो भागस्तत्स्वामी भागी, तत्र लक्षणादिषु च वर्तमानात् प्रत्यादिभिर्युक्ताद् "द्वितीया' स्यात् । यदत्र मां प्रति मां परि मामनु स्यात् तद् दीयताम् । वृक्षं प्रति परि अनु वा विद्युत् । वृक्षं वृक्षं प्रति परि अनु वा सेकः । साधुमैत्रो मातरं प्रति परि अनु वा । एतेष्विति किम् ? अनु वनस्या-ऽशनिर्गता ॥३७॥ हेतु-सहार्थेऽनुना ।२।२॥३८॥ हेतुर्जनकः, सहार्थस्तुल्ययोगो विद्यमानता च, तद्विषयोऽप्युपचारात्, तयोवर्तमानादनुना युक्ताद् 'द्वितीया' स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः गिरिमन्ववसिता सेना ॥३८॥ उत्कृष्टेऽनूपेन ।२।२।३९॥ उत्कृष्टादिनूपाभ्यां युक्ताद् द्वितीया' स्यात् । अनु सिद्धसेनं कवयः । उपोमास्वातिं संग्रहीतारः ॥३९॥ कर्मणि ।२।२।४०॥ नाम्नः कर्मणि 'द्वितीया' स्यात् । कटं करोति, तण्डुलान् पचति, रविं पश्यति, अजां नयति ग्रामम्, गां दोग्धि पयः ॥४०॥ क्रियाविशेषणात् ।२।२॥४१॥ क्रियाया यद्विशेषणं तद्वाचिनो 'द्वितीया' स्यात् । स्तोकं पचति । सुखं स्थाता ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy