SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् उपसर्गादिवः ।२।२।१७॥ उपसर्गात् पास्य दिवो व्याप्यौ विनिमेय- धूतपणौ 'वा कर्म' स्याताम् । शतस्य शतं वा प्रदीव्यति । उपसर्गादिति किम् ? शतस्य दीव्यति ॥१७॥ न ।२।२।१८॥ अनुपसर्गस्य दिवो व्याप्यौ विनिमेय-धूतपणौ 'कर्म न' स्याताम् । शतस्य दीव्यति ॥१८॥ करणं च ।२।२।१९॥ दिवः करणम् 'कर्म करणं च युगपत्' स्यात् । अक्षान् दीव्यति, अक्षैर्दीव्यति, अक्षैर्देवयते मैत्रश्चैत्रेण ॥१९॥ अधेः शीङ्-स्था-ऽऽस आधारः ।२।२।२०॥ अधेः संबद्धानां शीङ्-स्था-ऽऽसामाधारः 'कर्म' स्यात् । ग्राममधिशेते, अधितिष्ठति, अध्यास्ते वा ॥२०॥ उपान्वध्यावसः ।२२।२१॥ उपादिविशिष्टस्य वसतेराधारः 'कर्म' स्यात् । ग्राममुपवसति, अनुवसति, अधिवसति, आवसति वा ॥२१॥ वाऽभिनिविशः ।२।२।२२॥ अभि-निम्यामुपसृष्टस्य विशेराधारः 'कर्म वा' स्यात् । ग्राममभिनिविशते, कल्याणे अभिनिविशते ।।२२।। कालाध्व-भाव-देशं वाऽकर्म चाऽकर्मणाम् ।२।२।२३॥ कालादिराधारोऽकर्मणां धातूनां योगे कर्माऽकर्म च युगपद् वा स्यात् । मासमास्ते, क्रोशं शेते, गोदोहमास्ते, कुरूनास्ते । पक्षे-मासे, आस्ते इत्यादि । अकर्म चेति किम् ? मासमास्यते । अकर्मणामिति किम् ?
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy