SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् न व - मन्तसंयोगात् । २।१।१११॥ वान्तान्मान्ताच्च संयोगात्परस्या- ' ऽनोऽस्य लुग् न' स्यात् । पर्वणा, कर्मणी ॥ हनो नो घ्नः । २।१।११२॥ 'हन्तेर्हनो घ्नः' स्यात् । भ्रूणघ्नी, घ्नन्ति । न इति किम् ? वृत्रहणी ॥ ११२ ॥ लुगस्यादेत्यपदे । २।१।११३॥ अपदादावकारे एकारे च परे - 'ऽस्य लुक् स्यात् । सः, पचन्ति पचे । अपद इति किम् ? दण्डाग्रम् ॥११३॥ डित्यन्त्यस्वरादेः | २|१|११४॥ स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे 'लुक्' स्यात् । मुनी, साधी, पितुः ॥ ११४॥ ५५ अवर्णादश्नोऽन्तो वाऽतुरीड्योः | २|१|११५ ॥ श्नावर्णादवर्णात् परस्याऽतुः स्थाने - 'ऽन्तो वा' स्यात्, ई-ड्योः । तुदन्ती, तुदती कुले स्त्री वा । एवम् भान्ती, भाती । अवर्णादिति किम् ? अदती । अम्न इति किम् ? लुनती ॥ ११५ ॥ श्य - शवः | २|१|११६॥ श्याच्छवश्च परस्याऽतुरीड्योः परयोरन्त इत्यादेशः स्यात् । दीव्यन्ती, पचन्ती । दिव औः सौ | २|१|११७॥ दिवः सौ परे 'औ' स्यात् । द्यौः ||११७|| उः पदान्तेऽनूत् । २।१।११८ ॥ पदान्तस्य दिव ‘उ:' स्यात्, अनूत् - स तु दीर्घो न स्यात् । द्युभ्याम्, द्युषु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ॥ ११८ ॥ इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy