SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३७ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कुशः परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात्, निर्निमित्त एव । क्रोष्ट्री, क्रोष्ट्रयौ, क्रोष्ट्रीभ्याम् । पञ्चक्रोष्ठभी रथैः ॥९३।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्रापिधानस्वोपनशब्दानुशासन लवृत्तौ प्रथमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥१४॥ सोत्कण्ठमङ्गलगतैः कचकर्षणैश्च, वक्त्राब्जचुम्बननखक्षतकर्मभिश्च । श्रीमूलराजहतभूपतिभिर्विलेसुः, संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च ।।४।। --xox ---- अथ द्वितीयोऽध्यायः ॐ (प्रथमः पादः) त्रि-चतुरस्तिसृ-चतसृ स्यादौ ।२।१।१॥ स्त्रियामिति वर्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रिचतुरोर्यथासंख्यम् 'तिसृ-चतसृ' इत्येतौ स्याताम् । तिम्रः, चतनः; तिसूषु, चतसूपु । प्रियतिसा, प्रियचतसा ना । प्रियतिस कुलम्, प्रियत्रि कुलम् । स्यादाविति किम् ? प्रियत्रिकः, प्रियचतुष्कः ॥१॥ तो र स्वरेऽनि ।२।१।२।। तिस-चतसृस्थस्य ऋतः स्वरादौ परे 'रः' स्यात्, अनि- नविषयादन्यत्र । तिम्रः चतम्रःः प्रियतिम्रौ,प्रियचतम्रौ । स्वर इति किम् ? तिसृभिः, चतसृमिः । अनीति किम् ? तिसृणाम्, चतसृणाम् ।।२।। जराया जरस् वा ।२।१३॥ स्वरादी स्यादौ परे जराया 'जरस् वा स्यात् । जरसी जरसः । जरे, जराः । अतिजरसी, अतिजरी । अतिजरसम्, अतिजरम् कुलम् ।।३।।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy