SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अवर्णस्याऽऽमः साम् | १|४|१५|| अवर्णान्तस्य सवदिरामः 'साम्' स्यात् । सर्वेषाम्, विश्वासाम् ॥ १५ ॥ नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा | १|४|१६ ॥ I पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो यथास्थानमुक्तास्ते वा स्युः । पूर्वे, पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ||१६|| आपो ङितां यै-यास् - यास् - याम् |9|४|१७| २६ आबन्तस्य ङिताम् - डे-ङसिङस्-डीनां यथासंख्यम् 'यै- यास् - यास्यामः ' स्युः । खट्वायै खट्टायाः, खट्वायाः, खट्टायाम् ॥१७॥ सवदिर्डस् पूर्वाः । १।४।१८॥ सर्वादिराबन्तस्य ङिताम् 'यै - यास् - यास् - यामस्ते डस्पूर्वाः स्युः । सर्वस्यै, सर्वस्याः, सर्वस्याः सर्वस्याम् ||१८|| " टौस्येत् | १|४|१९ ॥ आवन्तस्य टीसोः परयोरेकारः स्यात् । बहुराजया, बहुराजयोः ||१९| औता |१|४|२०|| आवन्तस्य 'औता सहैकारः' स्यात् । माले स्तः पश्य वा ॥२०॥ इदुतोऽस्रीत् |१|४|२१॥ स्रन्यस्येदन्तस्योदन्तस्य च औता सह यथासंख्यम् 'ईदूती' स्याताम् । मुनी, साधू । अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ॥२१॥ जस्येदोत् । १।४।२२ ॥ इदुदन्तयोर्जसि परे यथासंख्यम् 'एदोती' स्याताम् । मुनयः साधवः ॥ २२॥ ङित्यदिति |१|४|२३॥ अदिति ङिति स्यादौ परे, इदुदन्तयोर्यथासंख्यम् 'एदोती' स्याताम् । अति
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy