SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अनव्ययस्येति किम् ? दिवाभूता रात्रिः ||१११॥ क्यनि | ४|३|११२॥ अवर्णान्तस्य क्यनि 'ई' स्यात् । पुत्रीयति । मालीयति ॥ ११२ ॥ क्षुत्तृड्- गर्भेऽशनायोदन्य - धनायम् | ४ | ३ |११३॥ एष्वर्थेषु 'यथासंख्यमशनायादयः क्यन्नन्ता निपात्यन्ते' । अशनायति, उदन्यति, धनायति । क्षुदादाविति कम् ? अशनीयति, उदकीयति, धनीयति दातुम् ||११३|| २४७ वृषाऽश्वान्मैथुने स्सोऽन्तः |४|३|११४॥ आभ्यां मैथुनार्थाभ्यां क्यनि 'स्सोऽन्तः' स्यात् । वृषस्यति गौः, अश्वस्यति वडवा । मैथुन इति किम् ? वृषीयति, अश्वीयति ब्राह्मणी ||११४ || अस् च लौल्ये | ४|३|११५॥ भोगेच्छातिरेको लौल्यम्, तत्र गम्ये क्यनि परे 'नाम्नः स्सोऽस् चान्तः ' स्यात् । दधिस्यति, दध्यस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ॥ इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्ती चतुर्यस्याध्यायस्य तृतीयः पादः समाप्तः || ४|३ ॥ कर्णं च सिन्धुराजं च निर्जित्य युधि दुर्जयम् । श्रीभीमेनाधुना चक्रे, महाभारतमन्यथा ||१५|| [ चतुर्थः पादः ] अस्ति ब्रुवोर्भू- वचावशिति | ४|४|१ | अस्ति - ब्रुवोर्यथासंख्यम् 'भू-वचौ स्याताम् अशिति विषये । भव्यम्, अवोचत् । अशितीति किम् ? स्यात्, ब्रूते ॥१॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy