SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उपच्छत् ॥३३॥ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २१९ एकोपसर्गस्य च घे |४| २|३४|| एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ 'ह्रस्वः' स्यात् । प्रच्छदः, छदः । एकोपसर्गस्य चेति किम् ? समुपच्छादः ||३४|| उपान्त्यस्याऽसमानलोपि - शास्वृदितो डे |४| २|३५ ॥ समानलोपि-शास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ङपरे णी 'ह्रस्वः' स्यात् । अपीपचत्, मा भवान् अटिटत् । असमानलोपि - शास्वृदित इति किम् ? अत्यरराजत्, अशशासत्, मा भवान् ओणिणत् ॥३५॥ भ्राजभास - भाष-दीप-पीड- जीव-मील-कण-रण-बण-भण-श्रण- हेठ-लुट - लुप-लपां नवा | ४|२|३६|| एषां ङपरे णावुपान्त्यस्य 'ह्रस्वो वा स्यात् । अबिप्रजत्, अबभ्राजत्; अबीभसत्, अबभासत्; अबीभषत्, अबभाषत्; अदीदिपत्, अदिदीपत् अपीपिडत्, अपिपीडत्; अजीजिवत्, अजिजीवत्; अमीमिलत्, अमिमीलत्; अचीकणत्, अचकाणत्; अरीरणत्, अरराणत्; अबीबणत्, अबबाणत्; अबीभणत्, अबभाणत्; अशिश्रणत्, अशश्राणत्; अजूहवत्, अजुहावत्; अजीहिठत्, अजिहेठत्; अल्लुटत्, अलुलोटत्; अल्लुपत्, अलुलोपत्; अलीलपत्, अल्लापत् ||३६|| ऋदूवर्णस्य |४|२|३७॥ उपान्त्यस्य ऋवर्णस्य उपरे णी 'वा ऋः' स्यात् । अवीवृतत्, अववर्त्तत्; अचीकृतत्, अचिकीर्तत् ॥३७॥ जिघ्रतेरिः |४| २|३८ ॥ घ्र उपान्त्यस्य ङपरे णौ 'इर्वा' स्यात् । अजिघ्रिपत्, अजिघ्रपत् ॥३८॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy