SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८८ श्रीसिद्धहेमचन्द्र शब्दानुशासनम् ॥ एभ्यो धातुभ्यः परस्याः 'परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते' । दयाञ्चक्रे, दयाम्बभूव, दयामास पलायाञ्चक्रे, आसाञ्चक्रे, कासाञ्चक्रे ॥४७॥ गुरुनाम्यादेरनृच्छूर्णोः | ३|४|४८ ॥ गुरुर्नाम्यादिर्यस्य तस्माद्धातोः, ऋच्छूर्णुवर्जात् परस्याः 'परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । ईहाञ्चक्रे, ईहाम्बभूव, ईहामास । गुर्विति किम् ? इयेष । नामीति किम् ? आनर्च । आदीति किम् ? निनाय । अनृच्छूर्णोरिति किम् ? आनर्च्छ, प्रोर्णुनाव ||४८ || जाग्रुष- समिन्धेर्नवा | ३|४|४९॥ एभ्यो धातुभ्यः परस्याः 'परोक्षाया आम् वा स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागराञ्चकार, जागराम्बभूव, जागरामास, जजागार; ओषाञ्चकार; उवोष; समिन्धाञ्चक्रे, समीधे ॥ ४९ ॥ भी-ड्री - भृ-होस्तिव्वत् |३|४|५० ॥ एभ्यः परस्याः 'परोक्षाया आम् वा स्यात्, स च तिव्वत्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते' । बिभयाञ्चकार, बिभयाम्बभूव, बिभयामास, बिभाय; जिह्याञ्चकार, जिह्वाय, बिभराञ्चकार, बभार; जुहवाञ्चकार, जुहाव ॥५०॥ वेत्तेः कित् | ३ | ४|५१ ॥ वेत्तेः परस्याः 'परोक्षाया आम् किद् वा स्यात्, आमन्ताच्च कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते' । विदाञ्चकार, विवेद ॥५१॥ पञ्चम्याः कृगू | ३ | ४|५२ ॥ वेत्तेः परस्याः 'पञ्चम्याः किदाम् वा स्यात्, आमन्ताच्च परः पञ्चम्यन्तः कृगनु प्रयुज्यते' । विदाङ्करोतु, वेत्तु ॥५२॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy