SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Fenoshm - Basp - Dhomad - udvamane श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ फेनोष्म-बाष्प-धूमादुदमने ॥३॥४॥३३॥ एभ्यः कर्मभ्य उद्वमनेऽर्थे 'क्यङ् वा स्यात् । फेनायते, ऊष्मायते, बाष्पायते, धूमायते ॥३३॥ सुखादेरनुभवे ॥३४॥३४॥ साक्षात्कारेऽर्थे सुखादेः कर्मणः 'क्यङ् वा' स्यात् । सुखायते, दुःखायते ॥३४॥ शब्दादेः कृतौ वा ।३।४॥३५॥ एभ्यः कर्मभ्यः कृतावर्थे 'क्यङ् वा' स्यात् । शब्दायते, वैरायते 1 पक्षे णिच्शब्दयति, वैरयति ॥३५॥ तपसः क्यन् ।३।४॥३६॥ अस्मात् कर्मणः कृतावर्थे 'क्यन् वा' स्यात् । तपस्यति ॥३६॥ नमो-वरिवश्चित्रकोऽर्चा-सेवाऽऽश्चर्ये ३२४॥३७॥ एभ्यः कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु 'क्यन् वा' स्यात् । नमस्यति, वरिवस्यति, चित्रीयते ॥३७॥ अङ्गानिरसने गिङ् ३॥४॥३८॥ अङ्गवाचिनः कर्मणो निरसनेऽर्थे 'णिङ् वा स्यात् । हस्तयते, पादयते ॥ पुच्छादुत-परि-व्यसने ।३४।३९॥ पुच्छात् कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे 'णिङ् वा' स्यात् । उत्पुच्छयते, परिपुच्छयते, विपुच्छयते, पुच्छयते ॥३९॥ भाण्डात् समाचितौ ॥३॥४॥४०॥ भाण्डात् कर्मणः समाचितावर्थे 'णिड् वा' स्यात् । सम्भाण्डयते, परिभाण्डयते ॥४०॥ चीवरात् परिधाना-ऽर्जने ॥३॥४॥४१॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy