SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् लघुवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः || ३|३|| श्रीदुर्लभेशद्युमणेः पादास्तुष्टुविरे न कैः ? । लुलद्भिर्मेदिनीषालैर्वालिखिल्यैरिवाग्रतः ॥११॥ १८१ (चतुर्थः पादः ) गुपौ धूप विच्छि-पणि- पनेरायः | ३ | ४|१ || एभ्यो धातुभ्यः स्वार्थे 'आयः' स्यात् । गोपायति, धूपायति, विच्छायति, पणायति, पनायति ॥१॥ कमेर्णिङ् |३|४|२॥ कमेः स्वार्थे 'णिड्' स्यात् । कामयते ||२|| ऋतेर्डीयः | ३|४|३ ॥ ऋतेः स्वार्थे 'डीयः' स्यात् । ऋतीयते ||३|| अशवि ते वा | ३ | ४|४| 'गुपादिभ्यो ऽशव्विषये ते - आयादयो वा स्युः । गोपायिता, गोप्ता; कामयिता, कमिता; ऋतीयिता, अर्तिता ॥४॥ गुप्- तिजो गर्हा - क्षान्तौ सन् | ३ | ४|५|| गुपो गर्हायां तिजः क्षान्तौ वर्तमानात् स्वार्थे 'सन्' स्यात् । जुगुप्सते, तितिक्षते । गर्हाक्षान्ताविति किम् ? गोपनम् तेजनम् ॥५॥ कितः संशय-प्रतीकारे | ३|४|६ ॥ कितः संशय-प्रतीकारार्थात् स्वार्थे 'सन्' स्यात् । विचिकित्सति मे मनः, व्याधिं चिकित्सति । संशयप्रतीकारार्थ इति किम् ? केतयति ॥ ६ ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy