SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ परि-व्यवात क्रियः ।।३।२७॥ एभ्य उपसर्गेभ्यः परात् क्रीणातेः 'कर्तर्यात्मनेपदम्' स्यात् । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । उपसर्गादित्येव- उपरिक्रीणाति ॥२७॥ परा-वेर्जेः ३२३२८॥ आभ्यां पराज्जयतेः 'कर्तर्यात्मनेपदम्' स्यात् । पराजयते, विजयते । उपसर्गाभ्यामित्येव- बहुवि जयति वनम् ॥२८॥ समःणोः ।३।३।२९॥ समः परात् क्ष्णौतेः 'कर्तर्यात्मनेपदम् स्यात् । संक्ष्णुते शस्त्रम् । सम इति किम् ? क्ष्णौति । उपसर्गादित्येव- आयसं क्ष्णौति ॥२९॥ अपस्किरः ॥३॥३॥३०॥ अपात् किरतेः सस्सट्कात् 'कर्तर्यात्मनेपदम्' स्यात् । अपस्किरते वृषभो हृष्टः । सस्सट्कनिर्देशः किम् ? अपकिरति । अपेति किम् ? उपस्किरति ॥३०॥ उदश्चरः साप्यात् ।।३॥३१॥ उत्पूर्वाञ्चरेः सकर्मकात् 'कर्तर्यात्मनेपदम्' स्यात् । मार्गमुच्चरते । सायादिति किम् ? धूम उच्चरति ॥३१॥ समस्तृतीयया ॥३॥३॥३२॥ सम्पूर्वाधरेस्तृतीयान्तेन योगे 'कर्तर्यात्मनेपदम् स्यात् । अश्वेन सधरते । तृतीययेति किम् ? उभी लोको सञ्चरसि ॥३२॥ क्रीडोऽकूजने ३३३३३३॥ कूजनम्- अव्यक्तः शब्दः, ततोऽन्यार्थात् संपूर्वात् क्रीडतेः 'कर्तर्यामनेपदम्' स्यात् । संक्रीडते । सम इत्येव- क्रीडति । अकूजन इति किम् ? संक्रीडन्त्यनांसि ॥३३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy