SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १५९ अप्राणिन्यर्थे 'नगो वा निपात्यते' । नगः, अगो गिरिः । अप्राणिनीति किम् ? अगोऽयं शीतेन ॥१२७॥ नखादयः | ३ |२|१२८॥ एते 'अकृताऽकाराद्यदेशा निपात्यन्ते' । नखः, नासत्यः ॥१२८॥ अन् स्वरे |३|२|१२९॥ स्वरादावुत्तरपदे 'नञोऽन्' स्यात् । अनन्तो जिनः ॥ १२९ ॥ कोः कत्तत्पुरुषे । ३।२।१३०॥ स्वरादावुत्तरपदे 'कोस्तत्पुरुषे कद्' स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव - कुब्राह्मणः || १३०|| रथ- वदे |३|२|१३१॥ रथे वदे चोत्तरपदे 'कोः कद्' स्यात् । कद्रथः, कद्वदः ॥१३१॥ तृणे जातौ ।३।२।१३२॥ जातावर्थे तृणे उत्तरपदे 'कोः कद्' स्यात् । कत्तृणा रौहिषाख्या तृणजातिः ॥ कत्त्रिः ।३।२।१३३॥ 'कोः किमो वा त्रावुत्तरपदे कद्' स्यात् । कत्त्रयः ॥ १३३ ॥ काऽक्ष-पथोः | ३|२|१३४॥ अनयोरुत्तरपदयोः 'कोः का' स्यात् । काऽक्षः, कापथम् ॥१३४|| पुरुषे वा । ३।२।१३५ ॥ पुरुषे उत्तरपदे 'कोः का' वा' स्यात् । कापुरुषः, कुपुरुषः ॥१३५॥ अल्पे | ३|२|१३६॥ 'ईषदर्थस्य कोरुत्तरपदे का' स्यात् । कामधुरम्, काऽच्छम् ॥१३६॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy