SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ स्यात् । मातापुत्री, होतापुत्री ॥४०॥ इ... वेदसहश्रुताऽवायुदेवतानाम् ।३।२।४१॥ “एषां द्वन्द्वे पूर्वपदस्योत्तरपदे आः' स्यात् । इन्द्रासोमौ । वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशक्रौ । श्रुतेति किम् ? चन्द्रसूर्यो । वायुवर्जनं किम् ? वाय्वग्नी । देवतानामिति किम् ? यूपचषालौ ॥४१॥ ७. ईः षोम-वरुणेऽग्नेः ।३।२।४२॥ 'वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदेऽग्नेरीः' स्यात्, षोमेति निर्देशाद् ईयोगे षत्वं च । अग्नीषोमी, अग्नीवरुणौ । देवताद्वन्द्व इत्येवअग्निसोमी बटू ॥४२॥ ७.६ इवृद्धिमत्यविष्णौ ।३।२।४३॥ 'विष्णुवर्षे वृद्धिमत्युत्तरपदे देवताद्वन्द्वे अग्नेरिः' स्यात् । आग्निवारुणीमनड्वाहीमालमेत । वृद्धिमतीति किम् ? अग्नीवरुणौ । अविष्णाविति किम् ? आग्नावैष्णवं चरुं निर्वपेत् ॥४३॥ दिवो द्यावा ।३।२।४४॥ 'देवताद्वन्द्वे दिव उत्तरपदे घावेति' स्यात् । घावाभूमी ॥४४॥ दिवस-दिवः पृथिव्यां वा ॥२॥४५॥ 'देवताद्वन्द्वे . दिवः पृथिव्यामुत्तरपदे एतौ वा' स्याताम् । दिवस्पृथिव्यौ, दिवःपृथिव्या, पावापृथिव्यौ ॥४५॥ उषासोषसः ३२४६ देवताद्वन्द्वे 'उपस उत्तरपदे उषासा' स्यात् । उषासासूर्यम् ॥४६॥ मातरपितरं वा ।।२।४७॥ 'मातृपित्रोः पूर्वोत्तरपदयोर्द्वन्द्वे ऋतोऽरो वा निपात्यते । मातरपितरयोः, मातापित्रोः ॥४७॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy