SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १३९ ब्राह्मणक्षत्रियविशः, बलदेववासुदेवौ ॥१६१॥ भर्तुतुल्यस्वरम् ।३।१।१६२॥ 'नक्षत्रतुवाचि तुल्यस्वरं द्वन्द्वेऽनुपूर्व प्राक्' स्यात् । अश्विनीभरणीकृत्तिकाः, हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति किम् ? आर्द्रामृगशिरसी, ग्रीष्मवसन्तौ ।।१६२॥ संख्या समासे ।३।१।१६३॥ 'समासमात्रे संख्यावाच्यनुपूर्व प्राक्' स्यात् । द्वित्राः, द्विशती, एकादशः ॥१६३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन रघुवृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समासः ॥३१॥ असंरब्धा अपि चिरं दुःसहा वैरभूभृताम् । चण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः ॥९॥ (द्वितीयः पादः) परस्परा-ऽन्योऽन्येतरेतरस्याम् स्यादेर्वाऽपुंसि ।३।२।१॥ "एषामपुंवृत्तीनां स्यादेराम् वा' स्यात् । इमे सख्यौ कुले वा परस्परां परस्परम्, अन्योऽन्यामन्योऽन्यम्, इतरेतरामितरेतरं भोजयतः । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योऽन्यामन्योऽन्येन, इतरेतरामितरेतरेण भोज्यते । अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति ॥१॥ अमव्ययीभावस्याऽतोऽपञ्चम्याः ।।२।२॥ 'अदन्तस्याव्ययीभावस्य स्यादरम् स्यात्, न तु पञ्चम्याः' । उपकुम्भमस्ति,
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy