SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् अद्रव्ये वर्तमानाश्चादयोऽव्ययानि स्युः । वृक्षश्च इत्यादि ॥३१॥ अधण्तस्वाया शसः 1१1१॥३२॥ धण्वर्जास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं नाम अव्ययं स्यात् । देवा अर्जुनतोऽभवन्, ततः, तत्र, बहुशः । अधणिति किम् ? पथिद्वैधानि ॥३२॥ विभक्ति-थमन्त-तसायाभाः ।११।३३॥ विभक्त्यन्ताभाः थमवसानतसादिप्रत्ययान्ताभाश्चाऽव्ययानि स्युः । अहंयुः, अस्तिक्षीरा गौः, कथम्, कुतः ॥३३॥ वत्-तस्याम् ।१।१।३४॥ वत्-तसि-आम्प्रत्ययान्तमव्ययं स्यात् । मुनिवद् वृत्तम्, उरस्तः, . उच्चैस्तराम् ॥३४॥ क्त्वा-तुमम् 191१1३५॥ क्त्वा-तुम्-अम्प्रत्ययान्तमव्ययं स्यात् । कृत्वा, कर्तुम्, यावज्जीवमदात् ॥३५॥ गतिः 191१1३६॥ गतिसंज्ञमव्ययं स्यात् । अदःकृत्य । “अतः कृ-कमि०" {२.३.५.) इत्यादिना रः सो न स्यात् ॥३६॥ अप्रयोगीत् 1१1१1३७॥ इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते, यजते, चित्रीयते ॥३७।। __अनन्तः पञ्चम्याः प्रत्ययः 1१1१1३८॥ पञ्चम्यर्थाद् विहितोऽन्तशब्दाऽनिर्दिष्टः प्रत्ययः स्यात् । “नाम्नः प्रथमैकद्वि-बही" २-२-३१) । वृक्षः । अनन्त इति किम् ? आगमः प्रत्ययो मा भूत् ॥३८॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy