SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् देशेऽन्तरोऽयन - हनः | २|३|९१॥ अन्तःशब्दात्परस्याऽयनस्य हन्तेश्च 'नो देशेऽर्थे ण् न' स्यात् । अन्तरयनोऽन्तर्हननो वा देशः । देश इति किम् ? अन्तरयणम्, अन्तर्हण्यते ॥ ९१ ॥ षात् पदे ।२।३।९२॥ पदे परतो यः षस्ततः परस्य 'नो ण् न' स्यात् । सर्पिष्पानम् । पद इति किम् ? सर्पिष्केण ॥९२॥ ९२ पदेऽन्तरेऽनाऽऽङ्ग्यतद्धिते | २|३|९३॥ आङन्तं तद्धितान्तं च मुक्त्वाऽन्यस्मिन् पदे निमित्त कार्यिणोरन्तरे 'नो ण् न' स्यात् । प्रावनद्धम्, रोषभीममुखेन । अनाङीति किम् ? प्राणद्धम् । अतद्धित इति किम् ? आर्द्रगोमयेण ॥ ९३ ॥ हनो घि | २|३|९४॥ हन्तेन घि निमित्तकार्यिणोरन्तरे सति 'ण् न' स्यात् । शत्रुघ्नः ॥ ९४ ॥ नृतेर्यङि | २|३|९५॥ नृतेन यविषये 'ण् न' स्यात् । नरीनृत्यते, नरिनर्ति । यङीति किम् ? हरिणत नाम कश्चित् ॥९५॥ क्षुभ्नादीनाम् | २|३|१६|| एषाम् 'नो ण् न' स्यात् । क्षुम्नाति, आचार्यानी ॥ ९६ ॥ पाठे धात्वादेर्णो नः | २|३|९७॥ पाठे धात्वादे- 'र्णो नः' स्यात् । नयति । पाठ इति किम् ? णकारीयति । आदेरिति किम् ? भणति ॥९७॥ षः सोऽष्ट्रयै- ष्ठिव - ष्वष्कः | २|३|९८ ॥ पाठे धात्वादेः 'षः सः स्यात्, न तु ष्ट्यै- ष्ठिव-ष्वष्कां सम्बन्धी स्यात् ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy