SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] [१९ के चिदविदितपरमार्थाः पाडिहारियपीढफलग इत्यादि दर्शयन्तो गृहस्थवस्त्रव्यापारणं स्वीकुर्वते तच्चासङ्गतम्। येन ‘पाडिहारिय' इति, प्रतिगृहीतत्वेन पीठफलकादिविशेषणं मन्तव्यम्। तथैव च गृहस्थवस्त्रपात्रभोगनिषेधः श्रूयते सिद्धान्ते, स चायम् १"परमत्ते अन्नपाणं, न भुंजेज्ज कयाइ वि। परवत्थं अचेलो वि, तं विज्जं परिजाणिया" ॥२०॥ "परमत्ते' इत्यादि, परस्य गृहस्थस्यामत्रं भाजनं पा मात्रम्, तत्र पुर:कर्मपश्चात्कर्मभयात् [तद्भयात्] हृतनष्टादिदोषसम्भवाच्चान्नं पानं च मुनिन कदाचिदपि भुञ्जीत, यदि वा पतद्ग्रहधारिणश्छिद्र पाणे: पाणिपात्रं परपात्रम्, यदि वा पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभयान्न भुञ्जीत । तथा परस्य गृहस्थस्य वस्त्रं परवस्त्रम्, तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसंभवाच्च न बिश यात्, यदि वा जिनकल्पिकोऽचेलो भूत्वा सर्वमपि वस्त्रं परवस्त्रमिति कृत्वा न बिभृयात् । तदेतत् सर्वं परपात्रभोजनादिकं संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमाध्ययने २७१ प्रतौ १०२ पत्रे ॥९॥ एतेन प्रतिग्रामं ये गृहस्थस्य घटादिपात्रं व्यापारयन्ति, ते निरस्ता द्रष्टव्याः ।। केचिदिह कुमतितमस्विनीयक्त्य(?)मुक्त्यध्वानः प्रतिपदमागमोक्तमपि योगोद्वहनमस्वीकुर्वाणः सिद्धान्तपदान्यगारिणामगणिताशातनाः पाठयन्ति । ते च संसारं पल्लवयन्ति सिद्धान्तनिषिद्धत्वात् । निषेधश्चैतद्गाथातात्पर्यार्थावगमगम्यः, सा चेयम् २"गिहे दीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं" ॥३४॥ 'गिहे दीवं' इत्यादि, गृहे गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'दीवं'ति दीपी दीप्तौ, दीपयति प्रकाशयतीति दीपः, स च भावदीपः श्रुतज्ञानलाभः, यदि वा द्वीपः समुद्रादौ प्राणिनामावासभूतः, स च भावद्वीप: संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतं दीपं वा गृहस्थभावेऽपश्यन्त अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उलो त्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति-नराः-पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य गोपादनमन्यथा स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति । मुमुक्षूणां पुरुषाणां १. सूय. श्रु.१/अ.९/४५६ गा. । २. सूय. श्रु.१/अ.९/४७० गा. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy