SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः ] [ १३ अदिन्नं गिण्हावेज्जा, नेवन्नं अदिन्नं गिण्हतं पि समणुजाणेज्जा । जेहिं वि सद्धि संपव्वइए तेसिं पि याइं भिक्खू छत्तयं वा मत्तयं वा दंडगं वा जाव चम्मच्छेयणगं वा तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमज्जिय नोउगिण्हेज्ज वा पगिण्हेज्ज वा, तेसिं पुव्वामेव उग्गहं अणुन्नविअ पडिलेहिय पमज्जिय तओ संजयामेवगिण्हेज्ज वा पगिण्हेज्ज वा " इति । वृत्तिर्यथा - 'समणे' इत्यादि श्राम्यतीति श्रमणस्तपस्वी । यतोऽहमेवम्भूतो भविष्यामीति दर्शयति- 'अनगारो' अगा वृक्षास्तैर्निष्पन्नमगारम्, तन्न विद्यते यस्येत्यनगारस्त्यक्तगृहवास इत्यर्थः । तथा न विद्यते किमप्यस्येत्यकिञ्चनो निःपरिग्रह इत्यर्थः । तथाऽपुत्रः स्वजनबन्धुरहितो निर्मम इत्यर्थः । एवमपशुर्द्विपदचतुष्पदादिरहितः । यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्वं भदन्तादत्तादानं प्रत्याख्यामि दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णन्तं समनुजानीयात् । यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति—तद्यथा— ‘छत्रकं' इति, ‘छद अपवारणे' छादयतीति छत्रं वर्षाकल्पादि, यदि वा कारणिकः क्वचित्कौङ्कण्देशादावतिवृष्टिसंभवाच्छन्नकमपि गृह्णीयाद्यावच्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य वाऽप्रमृज्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां सम्बन्धि यथा गृह्णीयात्तथा दर्शयति - पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयात् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धसप्तमाध्ययनप्रथमोद्देश २३७ प्रतौ २२७ पत्रे ॥१४॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चि श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्री आचाराङ्गकियद्विचारसमुच्चयनामा प्रथमस्तरङ्गः ॥१॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy