SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १०] [श्रीविचाररत्नाकरः यत्किञ्चिद्ववते, न च तत्तेषां सूत्राज्ञया विहरतां नद्याद्युत्तरतां कारणाद् वृक्षाद्यवलम्बतामाद्यव्रतरक्षणक्षमं द्वितीयव्रतरक्षणक्षमं च । तस्मादाज्ञामनोज्ञैव दयाऽऽश्रयणीया । अन्यथा दयाज्ञयोविोधापत्तिः स्यादिति दर्शनाय लिख्यते १ से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे वा अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा दरिओ वा संते परक्कमे संजयामेव पक्कमेज्जा नो उज्जुअंगच्छेज्जा । केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरिताणि वा अवलंबिय अवलंबिय उत्तरेज्जा से (जे) तत्थ पाडिपहियाउवागच्छंति ते पाणी जाएज्जा तओ संजयामेव अवलंबिय अवलंबिय उत्तरेज्जा तओ संजयामेव गामाणुग्गामं दूइज्जेज्ज'त्ति । वृत्तिर्यथा-'से' इति स भिक्षुर्गामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेद्यतस्तत्र गर्तादौ पतन् सचित्तं वृक्षादिकमवलम्बेत तच्चायक्तमथ कारणिकस्तेनैव गच्छेत । कथञ्चित पतितश्च गर्तगतो वल्ल्यादिकमवलम्ब्य प्रातिपथिकहस्तं वा याचित्वा संयत एव गच्छेत् ।इत्याचाराङ्गद्वितीयश्रुतस्कन्धतृतीयाध्ययनद्वितीयोद्देशके २३७ प्रतौ २१९ पत्रे ॥१०॥ __ आस्तामगीतार्थानां सभासमक्षं व्याख्यानकरणादि, अविदितैतत्षोडशविधवचनानां जल्पनमप्यनुचितमित्यभिप्रायो लिख्यते २ 'समियाए संजए भासं भासेज्ज । तंजहा-एगवयणं १ दुवयणं २ बहुवयणं ३ इत्थीवयणं ४ पुरिसवयणं ५ नपुंसगवयणं ६ अज्झत्थवयणं ७ उवनीतवयणं ८।१ अवणीयवयणं ९।२ उवणीयअवणीयवयणं १०।३ अवणीयउवणीयवयणं ११।४ तीयवयणं १२ पडुप्पन्नवयणं १३ आगयवयणं १४ पच्चक्खवयणं १५ परोक्खवयणं १६। से एगवयणं वदिस्सामीति एगवयणं वदेज्जा जाव परोक्खवयणं वदिस्सामीति परोक्खवयणं वएज्जा"। वृत्तिर्य थाभाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषितव्या तां षोडशवचनविधिगतां दर्शयति, तद्यथेत्ययमुपदर्शनार्थ: १. आचा. श्रु.२/चू.१/अ.३/उ. २-४५६ सू. । २. आचा. श्रु.२/चू.१/अ.४/उ. १-४६६ सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy