SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अर्हम् । ॥ श्रीपरमात्मने नमः ॥ महोपाध्यायश्रीकीर्त्तिविजयवाचकविरचितः ॥ श्रीविचाररत्नाकरः ॥ विचाररत्नाकरे प्राच्यतटे ॥ प्रथमस्तरङ्गः ॥ स जयति जिनवीरः क्षीरपाच्छकीर्तिर्भवति भुवनमान्यो यत्प्रसत्तेर्नरोऽपि । अथ किमिव न शक्यं दिव्यशक्तेर्घटोऽपि, श्रयति जननुतां यत्कामकुम्भप्रतिष्ठाम् ॥१॥ मालिनीच्छन्दः ] जीयासुर्जिनशासनोन्नतिकराः श्रीहीरसूरीश्वराः, सिद्धान्तोदधयः समाश्रिततटा रत्नार्थिभिर्धीवरैः । शिष्टाभीष्टरसाश्रया घनजना येभ्यो निपीतामृताः, गर्जन्तोऽप्यजडाशयाः प्रतिदिशं प्रीतिं समातन्वते ॥२॥ [ शा.वि.] तेषाम्छवयशः परिमलपरिकलितसकलभुवनानाम् । हृदि गोत्रमन्त्रमित्रं निधाय कामितफलवदान्यम् ॥३॥[ आर्या ] अङ्गोपाङ्गाद्यागमतद्विवृत्तिप्रकरणादिदृष्टानाम् । रचयामि विचाराणां निचयं ग्रन्थेऽत्र रुचिराणाम् ॥४॥[ आर्या ]त्रिभिर्विशेषकम् । ये सिद्धान्तमयाशयाः कृतधियः संदृब्धशास्त्राश्च ये, तेषामेष विशेषलेशलिखनायासोऽस्तु हासाय वै । अन्येषां तु मुदे भविष्यति जने हास्या न कृत्यासहा, किं क्रीडाशकटी कोति विकटीभावं शिशूनां मुदः ॥ ५ ॥ [ शा.वि. ]
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy