SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ १] [श्रीविचाररत्नाकरः ___ छद्मस्थेनापि सह केवली विहरतीत्यक्षराणि लिख्यन्ते निविअअट्ठमयट्ठाणे, सोसियकसाए जिइंदिए। विहरिज्जा तेण सद्धिं तु, छउमत्थेणावि केवली ॥४२॥ इति गच्छाचारप्रकीर्णके ॥६२॥ द्वाविंशते: परीषहाणां मध्ये उष्णा: के ? शीतलाश्च के ? इत्यभिप्रायो लिख्यते"इत्थीसक्कारपरीसहा य, दो भावसीयला एए। सेसा वीसं उण्हा, परीसहा होंति नायव्वा" ॥२॥ इत्याचाराङ्गनिर्युक्तौ ॥६३॥ समन्ताद्विस्तृतपुष्पप्रकरे समवसरणे साधूनां तिष्ठतां कथं न सचित्ते सङ्घट्टदोष इति शङ्कानिरासो लिख्यते पुष्पवृष्टिरत्राहुः परे–कथमम्लानपुष्प्रकरोपरि सर्वथा सच्चित्तसङ्घट्टनादिविरतानां यतीनामवस्थानादि युज्यते । अत्र केचित् प्रेरयन्ति-साध्ववस्थानस्थाने देवा न किरन्तीति । अन्ये त्वाहुः-नैतदेवम् , प्रयोजनेऽन्यत्रापि साधूनां गमनादिरपि सम्भवात् । केवलं विकुर्वितत्वात्तानि सचित्तानि न सम्भवन्ति । अन्ये त्वाहुः-न विकुर्वितान्येव तानि, जलजस्थलजानामपि पुष्पाणां तत्र प्रकीर्णत्वात् । यदागमः "बिंटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारिं ।। पयरंति समंतेणं, दसद्धवन्नं कुसुमवासं" ॥ [ ] परमत्र बहुश्रुता एवं समादधते-यथा निरुपमाऽचिन्त्यार्हत्प्रभावादेव योजनमात्रे क्षेत्रेऽपरिमितामादिसत्त्वसम्भवेऽपि न परस्परमाबाधा काचित् तथा पुष्पाणामपि तेषामुपरि सञ्चरिष्णौ स्थाष्णौ च मुन्यादिलोके । तत्त्वं तु केवलिनो विदन्ति । इति श्रीप्रवचनसारोद्धारैकोनचत्वारिंशद्वारे ॥६४॥ स्त्रियाः संभोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथोपवासाचाम्लादेर्वपुरभ्यङ्गगडुकरम्बबन्धनादिनाऽपि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरसम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् । इति श्राद्धविधौ ॥६५॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy